Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 475
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ४४३ किंच । ब्रह्मचारिणा अमत्या मधुमांसभक्षणे कृच्छ्रः कार्यः । तदनन्तरमवशिशनि व्रतानि समापयेत् । एतच्च शिष्टभोजनाशशादिमांसभक्षणविषयम् । 'ब्रह्मचारी चेन्मांसमश्नीयाच्छिष्टभोजनीयं कृच्छ्रं द्वादशरात्रं चरित्वा व्रतशेषं समापयेत्' इति वसिष्ठस्मरणात् । द्वादशरात्रग्रहणं तु मतिपूर्वाभ्यासापेक्षयातिकृच्छ्रपराकादेरपि प्रात्यर्थम् । यदा तु मांसैकापनोद्यव्याध्यभिभूतस्तदा मांसं गुरोरुच्छिष्टं कृत्वा भक्षणीयम् । 'स चेद्याधितः कामं गुरोरुच्छिष्टं भैषज्यार्थं सर्व प्राश्नीयात्' इति तेनैवोक्तत्वात् । सर्वग्रहणं मांसलशुनाद्यभक्ष्यमात्र संग्रहार्थम् । तद्भक्षणेन चापगतव्याधिरादित्यमुपतिष्ठेत । तथाच बौधायनः -- 'येनेच्छेत्तु चिकित्सितुं स यदाऽगदो भवति तदोत्थायादित्यमुपतिष्ठेत हंसः शुचिषत्' इति । मधुनोऽप्यज्ञानतः प्राशनोपपत्तौ न दोषः । 'अकामोपनतं मधु वाजसनेयके न दुष्यति' इति वसिष्ठस्मरणात् । अन्तसूतकान्नादिभक्षणप्रायश्चित्तं स्वभक्ष्यप्रायश्चिप्रकरणे वक्ष्यामः । आज्ञाप्रतिघातादिना गुरोः प्रतिकूलमाचरन् पादप्रणिपातादिना गुरुं प्रसाद्य विशुध्यति ॥ २८२ ॥ ब्रह्मचारिप्रायश्चित्तप्रसङ्गाङ्कुरोरपि प्रायश्चित्तमाह कृच्छ्रत्रयं गुरुः कुर्यान्प्रियते प्रहितो यदि ॥ २८३ ॥ यस्तु गुरुश्चौरोरगव्याघ्रादिभयाकुलप्रदेशे सान्द्रतरान्धकाराकुलितनिशीथावसरे कार्यार्थ शिष्यं प्रेरयति स च गुरुणा प्रेरितो देवान्मृतस्तदा स गुरुः कृच्छ्राणां प्राजापत्यादीनां त्रयं कुर्यात् । न पुनस्त्रयः प्राजापत्याः । तथा सति पृथक्त्वनिवेशिनी संख्यानुपपन्ना स्यात् । नच 'एकादश प्रयाजान्यजति' इतिवदावृत्यपेक्षा संख्येति चतुरस्रम् । स्वरूपपृथक्त्वे संभवत्यावृत्यपेक्षाया अन्या - य्यत्वात् । यदियमुत्पन्नगता संख्या स्यात्तदा स्यादपि कथंचिदावृत्त्यपेक्षा । किंतूत्पत्तिगतेयं, अतस्तिस्र आज्याहुतीर्जुहोती तिवत्स्वरूपपृथक्त्वापेक्षयैव त्रित्वसंख्याघटना युक्ता ॥ २८३ ॥ सकलहिंसाप्रायश्चित्तापवादमाह क्रियमाणोपकारे तु मृते विप्रे न पातकम् । [ विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥ ] आयुर्वेदोपदेशानुसारेणौषधपथ्यान्नप्रदानादिभिश्चिकित्सादिना क्रियमाण उपकारे यस्य ब्राह्मणादेस्तस्मिन्दैवात्कथंचिन्मृतेऽपि पातकं नैव भवति । विप्रग्रहणं प्राणिमात्रोपलक्षणार्थम् । अतएव 'यत्रणे गोचिकित्सार्थे गूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यान्न स पापेन लिप्यते ॥' इत्यादि संवर्ताद्यैरुक्तम् । एतच्च प्रपचितं प्राक् ॥ १ पृथङ्गिवेशिनी ख. २ इदम ङ. पुस्तके एवाधिकमस्ति ३ गोश्चिकित्सार्थे ख. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554