Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 503
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org मिताक्षरासहिता । Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५ ] एवं सकलरहस्यसाधारणधर्ममभिधाय प्रकाशप्रायश्चित्तवद्रह्महत्यादिक्रमेणैव रहस्यप्रायश्चित्तान्याह - ४७१ त्रिरात्रोपोषितो जल्वा ब्रह्महा लघमर्षणम् । अन्तर्जले विशुध्येत देवा गां च पयस्विनीम् ॥ ३०१ ॥ त्रिरात्रमुपोषितोऽन्तर्जलेऽघमर्षणेन महर्षिणा दृष्टं सूक्तं अघमर्षणं 'ऋतं च सत्यं च' इति तृचमानुष्टुभं भाववृत्तदेवताकं जहवा त्रिरात्रान्ते पयस्विनीं गां दत्त्वा ब्रह्महा विशुध्यति । जपश्चान्तर्जले निमग्नेन त्रिरावर्तनीयः । यथाह सुमन्तुः - 'देवद्विजगुरुहन्ताप्सु निमग्नोऽघमर्पणं सूक्तं त्रिरावर्तयेत् । मातरं भगिनीं गत्वा मातृष्वसारं स्पां सखीं वान्यद्वोऽगम्यागमनं कृत्वाऽघमर्षणमेवान्तर्जले त्रिरावर्त्य तदेतस्मात्पूतो भवति' इति । एतच्चाकामकारविषयम् । यत्तु मनुनोक्तम् (११।२४८ ) - ' सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश । अपि भ्रूणहणं मासात्पुनन्त्यहरहः कृताः ॥' इति, तदप्यस्मिन्नेव विषये गोदानाशक्तस्य वेदितव्यम् । यत्तु गौतमेन पत्रिंशद्रात्रव्रतमुक्त्वोक्तं ' तत एव ब्रह्महत्या सुरापानसुवर्णस्तेयगुरुतल्पेषु प्राणायामैः स्नातोऽघमर्षणं जपेत्' इति तदकामतः सकृद्वधविषयम् । यत्तु बौधायनेनोक्तम् । - ' ग्रामात्याचीं वोदीचीं eिaguests areः शुचिः शुचिवासा उदकान्ते स्थण्डिलमुपलिप्य सकृत्किन्नवासाः गोशकृत्पूतेन पाणिनादित्याभिमुखोऽघमर्षणं स्वाध्यायमधीयीत । प्रातः शतं मध्याह्ने शतमपराह्णे शतं परिमितं चोदितेषु नक्षत्रेषु प्रसृतियावकं प्राश्नीयात् । ज्ञानकृतेभ्योऽज्ञानकृतेभ्यश्चोपपातकेभ्यः सप्तरात्रात्प्रमुच्यते द्वादशरात्रान्महापातकेभ्यो ब्रह्महत्यासुरापानसुवर्णस्तेयानि वर्जयित्वा एकविंशतिरात्रेण तान्यपि तरती'ति तत्कामकारविषयम्, अकामतः श्रोत्रियाचार्यसवनस्थवधविषयं वा । यत्तु मनुनोक्तम् ( १२/२५८ ) -- ' अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥' इति, तत्कामतः श्रोत्रियादिवधविषयमितरत्र कामतोऽभ्यासविषयं वा । यत्तु बृहद्विष्णुनोक्तम् - 'ब्रह्महत्यां कृत्वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य प्रभूतेन्धनेनाग्निं प्रज्वाल्याघमर्पणेनाष्टसहस्रमाज्याहुतीर्जुहुयात्तत एतस्मात्पूतो भवति' इति, तन्निगुणवधविषयमनुग्राहक विषयं वा । यत्तु यमेनोक्तम्- 'यहं तूपवसे युक्तत्रिरह्नोऽभ्युपयन्नपः । मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाघमर्पणम् ॥' इति तद्गुणवतो हन्तुर्निर्गुणवधविषयं प्रयोजकानुमन्तृविषयं वा । यत्तु हारीतेनोक्तम् - 'महापातकातिपातकानुपातकोपपातकानामेकतममेव संनिपाते चाघमर्पणमेव त्रिर्जपेत्' इति तन्निमित्तकर्तृविषयम् । एवमन्यान्यपि स्मृतिवाक्यान्यन्विष्यैवमेव विषयेषु विभजनीयानि ग्रन्थगौरवभयान्न लिख्यन्ते । एतदेव व्रतजातं यागस्थ योषित्क्षत्रविदस्वात्रेय्यामाहिताग्निपल्यां गर्भिण्यामविज्ञाते च गर्भे व्यापादिते तुरीयांशन्यून मनुष्ठेयम् ॥ ३०१ ॥ S १ गां दत्त्वा च पयः ङ. २ न्यद्वा गमनं ख. ३ कामतो वध ख. ४ वासाः सकृत् ख. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554