Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 510
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७८ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ॥' इत्यनेन । 'घृतं यवा मधुयवाः पवित्रममृतं यवाः । सर्व पुनन्तु मे पापं वाङ्मनः काय संभवम् ॥' इत्यनेन वा । 'अभिकार्य तु कुर्वीत तेन भूतबलिं तथा । नाग्रं न भिक्षां नातिथ्यं न चोच्छिष्टं परित्यजेत् ॥' 'ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा' इत्यात्मनि जुहुयात्रिरात्रं मेधाभिवृद्धये पापक्षयाय त्रिरात्रं ब्रह्महत्यादिषु द्वादशरात्रं पतितोत्पन्नश्चेत्येतद्दिगवलम्बनेनान्यान्यपि स्मृतिवचनानि विवेचनीयानि ॥ ३११ ॥ इति रहस्यप्रायश्चित्तप्रकरणम् । विनियुक्तव्रतव्रातरूपभेदे बुभुत्सिते । areक्षमिति संक्षेपलक्षणं वक्ष्यतेऽधुना ॥ तत्र तावत्सकलप्रकाशरहस्यव्रताङ्गभूतान्धर्मानाह - ब्रह्मचर्य दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसा स्तेयमाधुर्ये दमवेति यमाः स्मृताः ॥ ३१२ ॥ स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः । नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ।। ३१३ ॥ I ब्रह्मचर्यं सकलेन्द्रियसंयमः । उपस्थनिग्रहो लिङ्गनिग्रहः गोबलीवर्दन्यायेन निर्दिष्टः । अकल्कता अकुटिलता । शेषं प्रसिद्धम् । यत्पुनर्मनुनोक्तम्- 'अहिंसा सत्यमक्रोधमार्जवं च समाचरेत्' इति तदप्येतेषामुपलक्षणं न परिगणनाय । अत्रच दयाक्षान्त्यादीनां पुरुषार्थतया प्राप्तानामपि पुनर्विधानं प्रायश्चित्ताङ्गत्वार्थम् । क्वचिद्विशेषोऽप्यस्ति । यथा विवाहादिष्वभ्यनुज्ञातस्याप्यनृतवचनस्य निवृत्त्यर्थं सत्यत्वविधानम् । पुत्रशिष्यादिकमपि न ताडनीयमित्येवमर्थमहिंसाविधानमित्येवमादि ॥ ३१२ ॥ ३१३ ॥ तत्र सान्तपनाख्यं व्रतं तावदाह गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । जग्ध्वा परेह्रयुपवसेत्कृच्छ्रं सान्तपनं चरन् ॥ ३१४ ॥ पूर्वेद्युराहारान्तरपरित्यागेन गोमूत्रादीनि पञ्चगव्यानि पञ्चद्रव्याणि कुशोदकसहितानि संयुज्य पीत्वा अपरेद्युरुपवसेदिति द्वैरात्रिकः सान्तपनः कृच्छ्रः । संयोजनं चोत्तरश्लोके पृथग्विधानादवगम्यते । कृच्छ्र इति चान्वर्थसंज्ञेयम् । तपोरूपत्वेन क्लेशसाध्यत्वात् । गोमूत्रादीनां परिमाणं वक्ष्यते । यदा पुनः पूर्वे - रुपयापरेद्युः समत्रकं संयुज्य समन्त्रकमेव पञ्चगव्यं पीयते तदा ब्रह्मकूर्च इत्याख्यायते । यथाह पाराशरः - 'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । निर्दिष्टं पञ्चगव्यं तु प्रत्येकं कायशोधनम् ॥ गोमूत्रं ताम्रवर्णायाः श्वेताया२ द्वैरात्रः ख. ३ सांतपनं ४ पवित्रं कायशोधनमिति पाठः ङ. १ परम् ख. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554