Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४७९
चापि गोमयम् । पयः काञ्चनवर्णाया नीलायाश्च तथा दधि ॥ घृतं च कृष्णवयाः सर्व कापिलमेव च । अलाभे सर्ववर्णानां पञ्चगव्येष्वयं विधिः ॥ गोमूत्रं arearraष्ट गोमयस्य तु षोडश । क्षीरस्य द्वादश प्रोक्ता दध्नस्तु दश कीर्तिताः ॥ गोमूत्रवद्धृतस्येष्टस्तदर्धे तु कुशोदकम् । गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥ तेजोसिशुक्रमित्याज्यं देवस्यत्वा कुशोदकम् । पञ्चगव्यमृचा पूतं होमयेदग्निसंनिधौ ॥ सप्तपत्राश्च ये दर्भा अच्छिन्नानाः शुचित्विषः । एतैरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि ॥ इरावती इदं विष्णुर्मानस्तोके च शंवतीः । एताभिश्चैव होतव्यं हुतशेषं पिबेद्विजः ॥ प्रणवेन समालोड्य प्रणवेनाभिमत्र्य च । प्रणवेन समुद्धृत्य पिबेत्तत्प्रणवेन तु ॥ मध्यमेन पलाशस्य पद्मपत्रेण वा पिबेत् । स्वर्णपात्रेण रौप्येण ब्राह्मतीर्थेन वा पुनः ॥ यत्त्वगस्थिगतं पापं देहे तिष्ठति मानवे । ब्रह्मकूर्चोपवासस्तु दहत्यग्निरिवेन्धनम् ॥' इति ॥ यदा खेतदेव मिश्रितं पञ्चगव्यं त्रिरात्रमभ्यस्यते तदा यति सान्तपनसंज्ञां लभते - 'एतदेव त्र्यहाभ्यस्तं यतिसान्तपनं स्मृतम्' इति शङ्खस्मरणात् ॥ जाबालेन तु सप्ताहसाध्यं सान्तपनमुक्तम् - गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकैकं प्रत्यहं पीत्वा स्वहोरात्रमभोजनम् । कृच्छ्रं सान्तपनं नाम सर्वपापप्रणाशनम् ॥' इति ॥ एषां च गुरुलघुकृच्छ्राणां शक्त्याद्यपेक्षया व्यवस्था विज्ञेया । एवमुत्तरन्नापि व्यवस्था बोद्धव्या ॥ ३१४ ॥ महासान्तपनाख्यं कृच्छ्रमाह
पर्णकृच्छ्राख्यं व्रतमाह
पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥ ३१५ ॥ सप्ताहेनापवर्जितो महासान्तपनाख्यः कृच्छ्रो विज्ञेयः । कथमित्यपेक्षायामुक्तं पृथग्भूतैः षद्भिर्गोमूत्रादिभिरेकै केनैकैकमहरतिवाहयेत् सप्तमं चोपवासेनेति । यमेन तु पञ्चदशाह संपाद्येो महासान्तपनोऽभिहितः - 'यहं पिबेत्तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् । त्र्यहं दधि त्र्यहं क्षीरं त्र्यहं सर्पिस्ततः शुचिः ॥ महासान्तपनं ह्येतत्सर्वपापप्रणाशनम् ॥' इति ॥ जाबालेन त्वेकविंशतिरात्रिनिर्वयों महासान्तपन उक्तः – 'पण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् । त्र्यहं चोपवसेदन्त्यं महासान्तपनं विदुः ॥' इति ॥ यदा तु षण्णां सान्तपनद्रव्याणामेकैकस्य यहमुपयोगस्तदा अतिसान्तपनम् । यथाह यमः - 'एतान्येव तथा पेयान्येकैकं तु व्यहं व्यहम् । अतिसान्तपनं नाम श्वपाकमपि शोधयेत् ॥' इति । श्वपाकमपि शोधयेदित्यर्थवादः ॥ ३१५ ॥
इति महासांत पनातिसांतपने ।
पर्णोदुम्बरराजीव विल्व पत्रकुशोदकैः ।
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ।। ३१६ ॥
१ अच्छिनायाः कुशाः स्थिता इति पाठः. २ ताम्रेण ख. ३ पेयादेकैकं ख.
For Private And Personal Use Only

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554