SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । ४७९ चापि गोमयम् । पयः काञ्चनवर्णाया नीलायाश्च तथा दधि ॥ घृतं च कृष्णवयाः सर्व कापिलमेव च । अलाभे सर्ववर्णानां पञ्चगव्येष्वयं विधिः ॥ गोमूत्रं arearraष्ट गोमयस्य तु षोडश । क्षीरस्य द्वादश प्रोक्ता दध्नस्तु दश कीर्तिताः ॥ गोमूत्रवद्धृतस्येष्टस्तदर्धे तु कुशोदकम् । गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥ तेजोसिशुक्रमित्याज्यं देवस्यत्वा कुशोदकम् । पञ्चगव्यमृचा पूतं होमयेदग्निसंनिधौ ॥ सप्तपत्राश्च ये दर्भा अच्छिन्नानाः शुचित्विषः । एतैरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि ॥ इरावती इदं विष्णुर्मानस्तोके च शंवतीः । एताभिश्चैव होतव्यं हुतशेषं पिबेद्विजः ॥ प्रणवेन समालोड्य प्रणवेनाभिमत्र्य च । प्रणवेन समुद्धृत्य पिबेत्तत्प्रणवेन तु ॥ मध्यमेन पलाशस्य पद्मपत्रेण वा पिबेत् । स्वर्णपात्रेण रौप्येण ब्राह्मतीर्थेन वा पुनः ॥ यत्त्वगस्थिगतं पापं देहे तिष्ठति मानवे । ब्रह्मकूर्चोपवासस्तु दहत्यग्निरिवेन्धनम् ॥' इति ॥ यदा खेतदेव मिश्रितं पञ्चगव्यं त्रिरात्रमभ्यस्यते तदा यति सान्तपनसंज्ञां लभते - 'एतदेव त्र्यहाभ्यस्तं यतिसान्तपनं स्मृतम्' इति शङ्खस्मरणात् ॥ जाबालेन तु सप्ताहसाध्यं सान्तपनमुक्तम् - गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकैकं प्रत्यहं पीत्वा स्वहोरात्रमभोजनम् । कृच्छ्रं सान्तपनं नाम सर्वपापप्रणाशनम् ॥' इति ॥ एषां च गुरुलघुकृच्छ्राणां शक्त्याद्यपेक्षया व्यवस्था विज्ञेया । एवमुत्तरन्नापि व्यवस्था बोद्धव्या ॥ ३१४ ॥ महासान्तपनाख्यं कृच्छ्रमाह पर्णकृच्छ्राख्यं व्रतमाह पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥ ३१५ ॥ सप्ताहेनापवर्जितो महासान्तपनाख्यः कृच्छ्रो विज्ञेयः । कथमित्यपेक्षायामुक्तं पृथग्भूतैः षद्भिर्गोमूत्रादिभिरेकै केनैकैकमहरतिवाहयेत् सप्तमं चोपवासेनेति । यमेन तु पञ्चदशाह संपाद्येो महासान्तपनोऽभिहितः - 'यहं पिबेत्तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् । त्र्यहं दधि त्र्यहं क्षीरं त्र्यहं सर्पिस्ततः शुचिः ॥ महासान्तपनं ह्येतत्सर्वपापप्रणाशनम् ॥' इति ॥ जाबालेन त्वेकविंशतिरात्रिनिर्वयों महासान्तपन उक्तः – 'पण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् । त्र्यहं चोपवसेदन्त्यं महासान्तपनं विदुः ॥' इति ॥ यदा तु षण्णां सान्तपनद्रव्याणामेकैकस्य यहमुपयोगस्तदा अतिसान्तपनम् । यथाह यमः - 'एतान्येव तथा पेयान्येकैकं तु व्यहं व्यहम् । अतिसान्तपनं नाम श्वपाकमपि शोधयेत् ॥' इति । श्वपाकमपि शोधयेदित्यर्थवादः ॥ ३१५ ॥ इति महासांत पनातिसांतपने । पर्णोदुम्बरराजीव विल्व पत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ।। ३१६ ॥ १ अच्छिनायाः कुशाः स्थिता इति पाठः. २ ताम्रेण ख. ३ पेयादेकैकं ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy