________________
Shri Mahavir Jain Aradhana Kendra
४८०
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
पलाशोदुम्बरारविन्द श्रीवृक्षपर्णानामेकैकेन कथितमुदकं प्रत्यहं पिबेत् । कुशोदकं चैकस्मिन्नहनीति पञ्चाहसाध्यः पर्णकृच्छ्रः । यदा तु पर्णादीनामेकी कृतानां काथस्त्रिरात्रान्ते पीयते तदा पर्णकूर्चः । यथाह यमः - ' एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा पिवेदद्भिः पर्णकूचऽभिधीयते ॥' इति । यदा तु बिल्वादिफलानि प्रत्येकं कथितानि मासं पीयन्ते तदा फलकृच्छ्रादिव्यपदेशं लभन्ते । यथाह मार्कण्डेयः - 'फलैर्मासेन क्वथितः फलकृच्छ्रो मनीषिभिः । श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैरपरस्तथा ॥ मासेनामलकैरेवं श्रीकृच्छ्रमपरं स्मृतम् । पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते ॥ मूलकृच्छ्रः स्मृतो मूलैस्तो कृच्छ्रो जलेन तु ॥ ' इति ॥ ३१६ ॥
इति पर्णकृच्छ्र एकादशविधः ।
तप्तकृच्छ्रमाह
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥ ३१७ ॥
पादकृच्छ्रमाह
दुग्धसर्पिरुदकानां तप्तानामेकैकं प्रतिदिवस प्राश्यापरेद्युरुपवसेत् । एष दिवसचतुष्टयसंपाद्यो महातप्तकृच्छ्रः । एभिरेव समस्तैः सोपवासैर्द्विरात्र संपाद्यः सान्तपनवत्तप्तकृच्छ्रः । मनुना तु द्वादशरात्रनिर्वत्यऽभिहितः ( ११२१४ ॥ - 'तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् । प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी स माहिताः ॥ ' इति । क्षीरादिपरिमाणं तु पराशरेणोक्तं द्रष्टव्यम् । 'अपां पिबेत्तु त्रिपलं द्विपलं तु पयः पिबेत् । पलमेकं पिबेत्सर्पिखिरात्रं चोष्णमारुतम् ॥' इति । त्रिरात्रमारुतस्य पूरणे उष्णोदकबाष्पं पिबेदित्यर्थः । यदा तु शीतं क्षीरादि पीयते तदा शीतकृच्छ्रः । - 'यहं शीतं पिबेत्तोयं त्र्यहं शीतं पयः पिबेत् । त्र्यहं शीतं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥' इति यमस्मरणात् ॥ ३१७ ॥ इति तप्तकृच्छ्रश्चतुर्विधः ।
एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ॥ ३१८ ॥
एकभक्तेन सकृद्धोजनेन दिवैव । नक्तेनेति पृथगुपादानात् । अतश्च दिवैवैकवारमेव भोजनेनैवैकमहोरात्रमतिवाहयेदिति । तत्र दिवेति रात्रिव्युदासः । एक. वारमिति द्विवारा दिव्युदासः । भोजनेनेत्यभोजनव्युदासः । एतच्च कृच्छ्रादीनां व्रतरूपत्वात् पुरुषार्थ भोजनपर्युदासेन कृच्छ्राङ्गभूतं भोजनं विधीयते । तथाचापस्तम्बः – 'त्र्यहमनक्ताश्यदिवाशी च ततख्यहं । त्र्यहमयाचितव्रतरुयहं नाश्नाति किंचन' इति । अत्र चानक्ताशीत्यनेन व्रतविहितेन णिनिप्रत्ययेन नक्तपर्युदासेन दिवाभोजननियमं दर्शयति । गौतमेनापीदमेव स्पष्टीकृतम्' हविष्यान्प्रातरा
१ त्रिरात्रस्य मारुतस्य ख.
For Private And Personal Use Only