________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम्'५] मिताक्षरासहिता।
४८१
शान्भुक्त्वा तिस्रो रात्री श्नीयात्' इति । एवं नक्तभोजनविधावपि । न विद्यते याचितं यस्मिन्भोजने तदयाचितम् । तेन कालविशेषानुपादानाद्दिवा रात्रौ वा सकृदित्येव । तपोरूपत्वात्कृच्छ्राणां द्वितीयभोजने तदनुपपत्तेः । अयाचितमिति न केवलं परकीयानयाचनप्रतिषेधोऽपि तु स्वकीयमपि परिचारकभार्यादिभ्यो न याचितव्यम् । प्रेषणाध्येषणयोः साधारणत्वाद्याच्जायाः। अतः स्वगृहेऽपि भृत्यभार्यादयोऽनाज्ञप्ता एव यदि भोजनमुपहरन्ति तर्हि भोक्तव्यं नान्यथा । अमुनैवामिप्रायेणोक्तं गौतमेन-'अथापरं व्यहं न कंचन याचेत' इति । अत्र च ग्राससंख्यानियमः पराशरेण दर्शितः-'सायं तु द्वादश ग्रासाः प्रातः पञ्चदश स्मृताः । चतुर्विंशतिरायाच्याः परं निरशनं स्मृतम् ॥' इति ॥ आपस्तम्बेन त्वन्यथोक्तम्-'सायं द्वाविंशतिसाः प्रातः पड्विंशतिः स्मृताः । चतुर्विंशतिरायाच्याः परं निरशनास्त्रयः । कुक्कुटाण्डप्रमाणास्तु यथा वास्यं विशेत्सुखम् ॥' इति ॥ अनयोश्च कल्पयोः शक्त्यपेक्षया विकल्पः। आपस्तम्बेन तु प्राजापत्यप्रायश्चित्तं चतुर्धा विभज्य चतुरः पादकृच्छ्रान्कृत्वा वर्णानुरूपेण व्यवस्था दर्शिता-'म्यहं निरशनं पादः पादश्चायाचितं व्यहम् । सायं त्र्यहं तथा पादः पादः प्रातस्तथा व्यहम् ॥ प्रातः पादं चरेच्छूद्रः सायं वैश्ये तु दापयेत् । अयाचितं तु राजन्ये त्रिरात्रं ब्राह्मणे स्मृतम् ॥' इति ॥ यदा त्वयाचितोपवासात्मकत्र्यहवयानुष्ठानं तदार्धकृच्छ्रः । सायंव्यतिरिक्तापरत्र्यहनयानुष्ठानं तु पादोनमिति विज्ञेयम् । 'सायंप्रातर्विनाथू स्यात्पादोनं नक्तवर्जितम्' इति तेनैवोक्तत्वात् ॥ अर्धकृच्छ्रस्य प्रकारान्तरमपि तेनैव दर्शितम्-'सायं प्रातस्तथैकैकं दिनद्वयमयाचितम् । दिनद्वयं च नाश्नीयात्कृच्छ्रार्ध तद्विधीयता ॥' इति ॥ ३१८॥ प्राजापत्यं कृच्छ्रमाह
यथाकथंचित्रिगुणः प्राजापत्योऽयमुच्यते । अयमेव पादकृच्छ्रः यथाकथंचिद्दण्डकलितवदावृत्त्या स्वस्थानविवृद्ध्या वा, तत्राप्यानुलोम्येन प्रातिलोम्येन वा तथा वक्ष्यमाणजपादियुक्तं तद्रहितं वा त्रिरभ्यस्तः प्राजापत्योऽभिधीयते । तत्र दण्डकलितवदावृत्तिपक्षो वसिष्ठेन प्रदर्शितः- 'अहः प्रातरहर्नक्तमहरेकमयाचितम् । अहः पराकं तत्रैकमेवं चतु. रहौ परौ ॥ अनुग्रहार्थं विप्राणां मनुर्धर्मभृतां वरः । बालवृद्धातुरेष्वेवं शिशुकृ. च्छ्रमुवाच ह ॥' इति ॥ आनुलोम्येन स्वस्थानविवृद्धिपक्षस्तु मनुना दर्शितः (१११२११)-'यहं प्रातस्यहं सायं त्र्यहमद्यादयाचितम् । परं व्यह च नाश्नीयात्प्राजापत्यं चरन्द्विजः ॥' इति ॥ प्रातिलोम्यावृत्तिस्तु वसिष्ठेन दर्शिता-'प्रातिलोम्यं चरेद्विप्रः कृच्छ्रे चान्द्रायणोत्तरम्' इति । जपादिरहितपक्षस्तु स्त्रीशूद्रादिविषयेऽङ्गिरसा दर्शितः–'तस्माच्छूद्रं समासाद्य सदा ध. र्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमादिवर्जितम् ॥' इति । जपादियु. क्तपक्षस्तु पारिशेष्याद्योग्यतया च त्रैवर्णिकविषयः । सच गौतमादिभिर्दर्शितः-'अथातः कृच्छ्रान्व्याख्यास्यामो हविष्यान्प्रातराशान्भुक्त्वा तिस्रो रात्री
For Private And Personal Use Only