Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 522
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९० याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः पादादिक्लह्या योजनीयम् । आवृत्तौ पुनश्चान्द्रायणादिकमिति एतद्दिगवलम्बनेनान्यत्रापि कल्पना कार्या । यत्पुनर्वृहस्पतिनोक्तम्-'जन्मप्रभृति यत्किंचित्पातकं चोपपातकम् । तावदावर्तयेत्कृच्छ्रे यावत्पष्टिगुणं भवेत् ॥' इति । तत् द्वे परदारे इति गौतमोक्तद्विवार्षिकसमानविषयम् । तथा त्रैमासिकादिविषयभू. तोपपातकावृत्तिविषयं वा । पातकपदाभिधेयचाण्डालादिस्त्रीगमने द्विरभ्यासविषयं वा । तत्र 'ज्ञानात्कृच्छ्राब्दमुद्दिष्टमज्ञानादैन्दवद्वयम्' इति सकृहुद्धिपूर्वगमने कृच्छ्राब्दविधानात्तदभ्यासे द्विवर्षतुल्यपष्टिकृच्छ्रविधानं युक्तमेव । यत्तु सुमन्तुनोक्तम्-'यदप्यसकृदभ्यस्तं बुद्धिपूर्वमचं महत् । तच्छुद्ध्यत्यन्दकृच्छ्रेण महतः पातकादृते ॥' इति तदप्युपपातकाद्यावृत्तिविषयं । तथा 'अज्ञानादैन्दवद्धयमिति यमोकैन्दवद्वयविषयभूतपातकावृत्तिविषयं वा । यस्तु तपस्यसमर्थो धान्यसमृद्धश्च स कृच्छ्रादिव्रतानि द्विजाग्यभोजनदानेन संपादयेत् । तथाहि स्मृत्यन्तरम्-'कृच्छ्रे पञ्चातिकृच्छ्रे त्रिगुणमहरहस्त्रिंशदेवं तृतीये चत्वारिंशञ्च तसे त्रिगुणितगुणिता विंशतिः स्यात्पराके । कृच्छ्रे सान्तापनाख्ये भवति षडधिका विंशतिः सैव हीना द्वाभ्यां चान्द्रायणे स्यात्तपसि कृशबलो भोजयेद्विप्रमुख्यान् ।' इति । अहरहरिति सर्वत्र संबन्धनीयम् । तृतीयः कृच्छ्रातिकृच्छ्रः । अत्र प्राजा. पत्यदिवसकल्पनया विद्वद्विप्राणां पष्टिभोजनं भवति । यत्तु चतुर्विंशतिमतेऽ. मिहितम्-'विप्रा द्वादश वा भोज्याः पावकेष्टिस्तथैव च । अन्या वा पावनी काचित्समान्याहुर्मनीषिणः ॥' इति प्राजापत्यस्थाने द्वादशानां विप्राणां भोजनमुक्तं तन्निर्धनविषयम् । यच्चान्द्रायणस्यापि तत्रैव प्रत्याम्नायाधुक्तम्-'चान्द्रायणं मृगारेष्टिः पवित्रेष्टिस्तथैव च । मित्रविन्दापशुश्चैव कृच्छ्रे मासत्रयं तथा ॥ नित्यनैमित्तिकानां च काम्यानां चैव कर्मणाम् । इष्टीनां पशुबन्धानामभावे चरवः स्मृताः ॥' इति तदपि चान्द्रायणाशक्तस्य । यत्तु कृच्छ्रे मासत्रयं तथेति कृच्छ्राष्टकं प्रत्याम्नातं तदपि जरटमूर्खविषयम् । चान्द्रायणं त्रिमिः कृच्छ्रेरिति दर्शित. त्वादित्यलं प्रपञ्चेन । प्रकृतमनुसरामः-यस्त्वभ्युदयकामो धर्मार्थं काम्यनियोगनिष्पत्यर्थमेतच्चान्द्रायणमनुतिष्ठति न पुनः प्रायश्चित्तार्थमसौ चन्द्रसालोक्यं स्वर्गविशेष प्राप्नोति । एतच्च संवत्सरावृत्त्यभिप्रायेण । एकमात्वा विपापो वि. पाप्मा सर्वमेनो हन्ति, द्वितीयमावा दशपूर्वान्दशापरानात्मानं चैकविंशं पङ्गिं च पुनाति, संवत्सरं चाहवा चन्द्रमसः सलोकतामामोती'ति गौतमस्मरणात् ॥ कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमाप्नुयात् । यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः ॥ ३७॥ किंच । यस्त्वभ्युदयकामः प्राजापत्यादिकृच्छ्राननुतिष्ठति स महती राज्यादिलक्षणां श्रियं विभूतिमनुभवति । यथा गुरुकतूनां राजसूयादीनां कर्ता तत्फलं स्वाराज्यादिलक्षणं महत्फलं लभते तथायमपि सुसमाहितः सकलाङ्गकलापम १ अन्यद्वा पावनं किंचित्सममाहुर्मनीषिण इत्यपि पाठः. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554