Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 521
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । ४८९ धेन्वादयः प्रत्याम्नायाः। पातकेषु तु साशीतिशतं प्राजापत्याः प्रत्याम्नायाश्च धेन्वादयस्तावन्त एव वा। तथा चतुर्विंशतिमतेऽभिहितम्-'जन्मप्रभृति पापानि बहानि विविधानि च । कृत्वार्वाग् ब्रह्महत्यायाः षडब्दं व्रतमाचरेत् ॥ प्रत्याम्नाये गवां देयं साशीति धनिना शतम् । तथाष्टादशलक्षाणि गायत्र्या वा जपेद्बुधः ॥' इति । इदमेव द्वादशवार्षिके व्रते द्वादशद्वादशदिनैरेकैकप्राजापत्यकल्पनायां लिङ्गम् । एवमुपपातकेषु त्रैवार्षिकप्रायश्चित्तविषयभूतेषु नवतिप्राजापत्यास्तावन्तः प्रत्याम्नायाः। त्रैमासिकविषयेषु पुनः सार्धसप्तप्राजापत्याः प्रत्याम्नायाश्च धेनूदवासादयस्तावन्त एव । मासिकव्रतविषयेषु तु सार्ध प्राजापत्यद्वयं तावानेव वा प्रत्याम्नायः । चान्द्रायणविषयभूतेषु पुनरुपपातकेषु प्राजापत्यत्रयम् । तदशक्तस्य प्रत्याम्नायस्तावानेव । यत्पुनश्चतुर्विंशतिमतेऽभिहितम्-'अष्टौ चान्द्रायणे देयाः प्रत्याम्नायविधौ सदा' इति, तदपि धनिनः पिपीलिकामध्यादिचान्द्रायणप्रत्याम्नायविषयम् । मासातिकृच्छ्रविषयभूतेषु पुनरुपपातकेषु सार्धसप्तप्राजापत्याः प्रत्याम्नायाश्च धेन्वादयस्तावन्त एव । 'प्राजापत्ये तु गामेकां दद्यात्सान्तपने द्वयम् । पराकतप्तातिकृच्छ्रे तिस्रस्तिस्रस्तु गास्तथा ॥' इति चतुर्विंशतिमतेऽभिधानात् । एतच्च 'एकैकं ग्रासमश्नीयादि'त्यामलकपरिमितैकैकग्रासपक्षे वेदितव्यम् । पाणिपूरानभोजनपक्षे पुनर्धेनुद्वयमेव । प्राजापत्यस्य पडुपवासतुल्यत्वात् तद्विगुणत्वाञ्चातिकृच्छ्रस्य । यद्यपि नवसु दिनेषु पाणिपूराबस्य भोजनं तथापि नैरन्तर्येण द्वादशदिवसानुष्टाने क्लेशातिशयात्षडहोपवाससमानप्राजापत्यद्वयतुल्यत्वमेव । प्राजापत्यस्य च पडुपवासतुल्यत्वं युक्तमेव । तथाहि । प्रथमे त्र्यहे सायंतनभोजनत्रयनिवृत्तावेकोपवाससंपत्तिः। द्वितीये व्यहे प्रातःकालभोजनत्रयनिवृत्तिपरस्य । तथाच अयाचितव्यहेऽपि सायंतनभोजनत्रयवर्जनेऽपरस्येत्येवं नवभिर्दिनैरुपवासत्रयम् । घुनश्चान्त्यव्यहे चोपवासत्रयमिति युक्तं घडुपवासतुल्यत्वम् । ऋषभैकादशगोदानसहितत्रिरात्रोपवासात्मकगोवधव्रते तु साधैकादशप्राजापत्यास्तावत्संख्याकाश्चोदवासादयः प्रत्याम्नायाः । मासं पयोव्रते तु साधैं प्राजापत्यद्वयम् । पराकात्मके तूपपातकव्रते प्राजापत्यत्रयं पराकतसातिकृच्छ्रस्थाने कृच्छ्रत्रयं चरेत् । 'सान्तपनस्य वाध्यधमशक्तौ व्रतमाचरेत्' इति पत्रिंशन्मतेऽभिधानात् । चान्द्रायणपराककृच्छ्रातिकृच्छ्रास्तु प्राजापत्यत्रयात्मका द्वादशवार्षिकवतस्थाने विंशत्युत्तरशतसंख्या अनुष्ठेयाः। तत्प्रत्याम्नायास्तु धेन्वादयस्त्रिगुणाः । अतिपातकेषु नवतिसंख्याकाश्चान्द्रायणादयः। तत्समेषु पुनः पातकपदाभिधेयेषु षष्टिसंख्याः। उपपातकेषु त्रैवार्पिकविषयेषु त्रिंशत्संख्याः। त्रैमासिके गोवधव्रतस्थाने गोमूत्रस्नानादीनां कर्तव्यताबाहुल्याच्चान्द्रायणादित्रयम् । मासिकव्रते तु योगीश्वरोक्ते एकमेव चान्द्रायणं धेनूदवासादिप्रत्याम्नायस्तु सर्वत्र त्रिगुण एव । प्रकीर्णकेषु पुनः प्रतिपदोक्तप्रायश्चित्तानुसारेण प्राजापत्यं १ प्राजापत्यानां प्रत्याम्नायधेन्वादयः ख. २ तदतिधनिनः ङ. ३ पराकतप्तातिकृच्छ्रे तिस्रस्तिस्रस्तु गास्तथेति पाठान्तरम्. ४ तुल्यत्वाविगुणत्वाच्च ङ. ५ त्रयवर्जनपरस्य ङ. ६ भोजनवर्जनेऽन्यस्येति ङ. ७ ततश्चान्त्य व्यहे ङ. ८ लानादीतिकर्तव्यता ङ. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554