________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४८९
धेन्वादयः प्रत्याम्नायाः। पातकेषु तु साशीतिशतं प्राजापत्याः प्रत्याम्नायाश्च धेन्वादयस्तावन्त एव वा। तथा चतुर्विंशतिमतेऽभिहितम्-'जन्मप्रभृति पापानि बहानि विविधानि च । कृत्वार्वाग् ब्रह्महत्यायाः षडब्दं व्रतमाचरेत् ॥ प्रत्याम्नाये गवां देयं साशीति धनिना शतम् । तथाष्टादशलक्षाणि गायत्र्या वा जपेद्बुधः ॥' इति । इदमेव द्वादशवार्षिके व्रते द्वादशद्वादशदिनैरेकैकप्राजापत्यकल्पनायां लिङ्गम् । एवमुपपातकेषु त्रैवार्षिकप्रायश्चित्तविषयभूतेषु नवतिप्राजापत्यास्तावन्तः प्रत्याम्नायाः। त्रैमासिकविषयेषु पुनः सार्धसप्तप्राजापत्याः प्रत्याम्नायाश्च धेनूदवासादयस्तावन्त एव । मासिकव्रतविषयेषु तु सार्ध प्राजापत्यद्वयं तावानेव वा प्रत्याम्नायः । चान्द्रायणविषयभूतेषु पुनरुपपातकेषु प्राजापत्यत्रयम् । तदशक्तस्य प्रत्याम्नायस्तावानेव । यत्पुनश्चतुर्विंशतिमतेऽभिहितम्-'अष्टौ चान्द्रायणे देयाः प्रत्याम्नायविधौ सदा' इति, तदपि धनिनः पिपीलिकामध्यादिचान्द्रायणप्रत्याम्नायविषयम् । मासातिकृच्छ्रविषयभूतेषु पुनरुपपातकेषु सार्धसप्तप्राजापत्याः प्रत्याम्नायाश्च धेन्वादयस्तावन्त एव । 'प्राजापत्ये तु गामेकां दद्यात्सान्तपने द्वयम् । पराकतप्तातिकृच्छ्रे तिस्रस्तिस्रस्तु गास्तथा ॥' इति चतुर्विंशतिमतेऽभिधानात् । एतच्च 'एकैकं ग्रासमश्नीयादि'त्यामलकपरिमितैकैकग्रासपक्षे वेदितव्यम् । पाणिपूरानभोजनपक्षे पुनर्धेनुद्वयमेव । प्राजापत्यस्य पडुपवासतुल्यत्वात् तद्विगुणत्वाञ्चातिकृच्छ्रस्य । यद्यपि नवसु दिनेषु पाणिपूराबस्य भोजनं तथापि नैरन्तर्येण द्वादशदिवसानुष्टाने क्लेशातिशयात्षडहोपवाससमानप्राजापत्यद्वयतुल्यत्वमेव । प्राजापत्यस्य च पडुपवासतुल्यत्वं युक्तमेव । तथाहि । प्रथमे त्र्यहे सायंतनभोजनत्रयनिवृत्तावेकोपवाससंपत्तिः। द्वितीये व्यहे प्रातःकालभोजनत्रयनिवृत्तिपरस्य । तथाच अयाचितव्यहेऽपि सायंतनभोजनत्रयवर्जनेऽपरस्येत्येवं नवभिर्दिनैरुपवासत्रयम् । घुनश्चान्त्यव्यहे चोपवासत्रयमिति युक्तं घडुपवासतुल्यत्वम् । ऋषभैकादशगोदानसहितत्रिरात्रोपवासात्मकगोवधव्रते तु साधैकादशप्राजापत्यास्तावत्संख्याकाश्चोदवासादयः प्रत्याम्नायाः । मासं पयोव्रते तु साधैं प्राजापत्यद्वयम् । पराकात्मके तूपपातकव्रते प्राजापत्यत्रयं पराकतसातिकृच्छ्रस्थाने कृच्छ्रत्रयं चरेत् । 'सान्तपनस्य वाध्यधमशक्तौ व्रतमाचरेत्' इति पत्रिंशन्मतेऽभिधानात् । चान्द्रायणपराककृच्छ्रातिकृच्छ्रास्तु प्राजापत्यत्रयात्मका द्वादशवार्षिकवतस्थाने विंशत्युत्तरशतसंख्या अनुष्ठेयाः। तत्प्रत्याम्नायास्तु धेन्वादयस्त्रिगुणाः । अतिपातकेषु नवतिसंख्याकाश्चान्द्रायणादयः। तत्समेषु पुनः पातकपदाभिधेयेषु षष्टिसंख्याः। उपपातकेषु त्रैवार्पिकविषयेषु त्रिंशत्संख्याः। त्रैमासिके गोवधव्रतस्थाने गोमूत्रस्नानादीनां कर्तव्यताबाहुल्याच्चान्द्रायणादित्रयम् । मासिकव्रते तु योगीश्वरोक्ते एकमेव चान्द्रायणं धेनूदवासादिप्रत्याम्नायस्तु सर्वत्र त्रिगुण एव । प्रकीर्णकेषु पुनः प्रतिपदोक्तप्रायश्चित्तानुसारेण प्राजापत्यं
१ प्राजापत्यानां प्रत्याम्नायधेन्वादयः ख. २ तदतिधनिनः ङ. ३ पराकतप्तातिकृच्छ्रे तिस्रस्तिस्रस्तु गास्तथेति पाठान्तरम्. ४ तुल्यत्वाविगुणत्वाच्च ङ. ५ त्रयवर्जनपरस्य ङ. ६ भोजनवर्जनेऽन्यस्येति ङ. ७ ततश्चान्त्य व्यहे ङ. ८ लानादीतिकर्तव्यता ङ.
For Private And Personal Use Only