________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८८
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
कर्मण्यो भवति, द्वितीयं चरित्वा यदन्यन्महापातकेभ्यः पापं कुरुते तस्मात्प्र. मुच्यते, तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते' इति महापातकादपीत्यभिप्रेतम् । मनुनाप्युक्तम् (११२१५)-'पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः' इति । हारीतेनाप्युक्तम्-'चान्द्रायणं यावकश्च तुलापुरुष एव च। गवां चैवानुगमनं सर्वपापप्रणाशनम् ॥' तथा-'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ॥' तथा तप्तकृच्छ्रमधिकृत्यापि तेनैवोक्तम्-'एष कृच्छ्रो द्विरभ्यस्तः पातकेभ्यः प्रमोचयेत् । त्रिरभ्यस्तो यथान्यायं शूद्रहत्यां व्यपोहति ॥' इति । उशनसा चोक्तम्-'यत्रोक्तं यत्र वा नोक्तं महापातकनाशनम् । प्राजापत्येन कृच्छ्रेण शोधयेन्नात्र संशयः ॥' इति । एतानि प्राजापत्यादीन्यनादिष्टेषूपपातकादिषु सकृदभ्यासापेक्षया व्यस्तानि समस्तानि वा योजनीयानि । तथा आदिष्टवतेष्वपि महापातकादिषु अभ्यासापेक्षया योजनीयानि । अतएव यमेनोक्तम्-'यत्रोक्त' मित्यादि । गौतमेनाप्युक्तनिष्कृतीनां संग्रहार्थं सर्वप्रायश्चित्तग्रहणं कृतम् । तथा यदपि तेनैवोक्तम्'द्वितीयं चरित्वा यदन्यन्महापातकेभ्यः पापं कुरुते तस्मात्प्रमुच्यते' इत्युक्त्वा 'तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते' इति, तदपि महापातकाभिप्रायं नतु क्षुद्रपातकाभिप्रायम् । नच महापातकमनुक्तनिष्कृतिक संभवति, तस्मादुक्त. निष्कृतिकेष्वपि प्राजापत्यादयो योजनीयाः । तत्र द्वादशवार्पिकवते द्वादशद्वादशदिनान्येकैकं प्राजापत्यं परिकल्प्य गण्यमाने प्राजापत्यानां षष्ट्यधिकशतत्रयं द्वादशवार्षिके वैकल्पिकमनुष्ठेयं भवति । तदशक्ती तावत्यो वा धेनवो दातव्याः। तदसंभवे निष्काणां षष्ट्यधिकशतत्रयं दातव्यम् । तथा स्मृत्यन्तरम् -'प्राजापत्यक्रियाऽशक्ती धेनुं दद्याद्विचक्षणः। धेनोरभावे दातव्यं मूल्यं तुल्यमसंशयम् ॥ मूल्यार्धमपि निष्कं वा तदर्धे शक्त्यपेक्षया'। गवाम. भावे निष्कः स्यात्तदर्धे पाद एव वा' इति स्मरणात् । मूल्यदानस्याप्यशक्ती तावन्तो वोदवासाः कार्याः । तत्राप्यशक्ती गायत्रीजपः पत्रिंशल्लक्षसंख्याकः कार्यः ।-'कृच्छ्रोऽयुतं तु गायत्र्या उदवासस्तथैव च । धेनुप्रदानं विप्राय सममेतञ्चतुष्टयम् ॥' इति पराशरस्मरणात् । यनु चतुर्विंशतिमतेऽभिहितम्-'गायत्र्यास्तु जपन्कोटिं ब्रह्महत्यां व्यपोहति । लक्षाशीतिं जपेद्यस्तु सुरापानाद्विमुच्यते ॥ पुनाति हेमहर्तारं गायत्र्या लक्षसप्ततिः। गायत्र्याः पष्टिभिलक्षैर्मुच्यते गुरुतल्पगः ॥' इति, तत् द्वादशवार्षिकतुल्यविधानतयोक्तं न पुनरशक्तविषयमिति न विरोधः । एवमन्येऽपि-'कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् । तिलहोमसहस्रं तु वेदपारायणं तथा ॥' इत्यादयः प्रत्याम्नायाश्चतुर्विंशतिमतादिशास्त्राभिहिताः षष्ट्यधिकत्रिशतगुणिता महापातकेषु बोद्धव्याः । अतिपातकेषु सप्तत्यधिकशतद्वयं प्राजापत्यानां कर्तव्यम् । तावन्तो वा
१ सर्वपातकनाशनं ख. २ तन्मूल्यं वा न संशयः ङ.
For Private And Personal Use Only