________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
४८७
मनःसंतापनं तीव्रमुद्वहेच्छोकमन्ततः ॥' इति । बहिरिति प्रामाद हिनिष्क्रम्य । स्त्रियाप्येवमेव व्रतपरिग्रहः कार्यः। केशश्मश्रुलोमनखवपनं तु नास्ति । -'चान्द्रायणादिष्वेतदेव स्त्रियाः केशवपनवर्जम्' इति बौधायनस्मरणात् ॥
वपनानिच्छोस्तु हारीतेन विशेष उक्त:--'राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः। केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ॥ केशानां रक्षणार्थ तु द्विगुणं व्रतमाचरेत् । द्विगुणे तु व्रते चीर्णे दक्षिणा द्विगुणा भवेत् ॥' इति । एतच्च महापातकादिदोषेविशेषाभिप्रायेण द्रष्टव्यम्-'विद्वद्विप्रनृपस्त्रीणां नेष्यते केशवापनम् । व्रते महापातकिनो गोहन्तुश्चावकीर्णिनः ॥' इति मनुस्मरणात् । जाबालेनाप्यत्र विशेष उक्त:--'भारम्भे सर्वकृच्छ्राणां समाप्तौ च विशेषतः । अन्नेनैव च शालाग्नौ जुहुयाध्याहृतीः पृथक् ॥ श्राद्धं कुर्याद्रतान्ते तु गोहिरण्यादि दक्षिणा ॥' इति ॥ यमेनाप्यत्र विशेषोऽभिहितः- पश्चात्तापो निवृत्तिश्च स्नानं चाङ्गतयोदितम् । नैमित्तिकानां सर्वेषां तथा चैवानुकीर्तनम् ॥' तथा-'गात्राभ्यङ्गशिरोभ्यङ्गी ताम्बूलमनुलेपनम् । व्रतस्थो वर्जयेत्सर्वं यच्चान्यद्बलरागकृत् ॥' इति । एवमादिकर्तव्यताजातं स्मृत्यन्तरादन्वेष्टव्यम् । एवमनेन विधिना व्रतं गृहीत्वावश्यं परिसमापनीयम् । अन्यथा तु प्रत्यवायः। 'पूर्वं व्रतं गृहीत्वा तु नाचरेत्काममोहितः। जीवन्भवति चण्डालो मृतः श्वा चैव जायते ॥' इति छागलेयस्मरणात् । इत्यलं प्रपञ्चेन ॥ ३२५ ॥
इत्थमुक्तविनियोगस्य चान्द्रायणादेः स्वरूपमभिधाय लब्धप्रसङ्गकार्यान्तरेऽपि विनियोगमाह
अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन तु ।
धर्मार्थं यश्वरेदेतचन्द्रस्यैति सलोकताम् ।। ३२६ ॥ आदिश्यत इत्यादिष्टं प्रायश्चित्तं न विद्यते आदिष्टं येषु पापेषु तेषु चान्द्रायः णेन शुद्धिः। चशब्दास्प्राजापत्यादिभिः कृच्छ्रेरैन्दवसहितैस्तन्निरपेक्षैर्वा शुद्धिः । तथाच षट्त्रिंशन्मतेऽभिहितम्-'यानि कानि च पापानि गुरोर्गुरुतराणि च । कृच्छ्रातिकृच्छ्रेचान्द्रयैः शोध्यन्ते मनुरब्रवीत् ॥' इति त्रयाणां समुच्चयः प्रतिपादितः। उशनसा तु द्वयोः समुच्चय उक्तः-'दुरितानां दुरिष्टानां पापानां महतामपि । कृच्छ्रे चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥' इति । दुरितमुपपातकम् । दुरिष्टं पातकम् । गौतमेन तु कृच्छ्रातिकृच्छौ चान्द्रायणमिति सर्वप्रायश्चित्तमिति विसमासकरणेनैन्दवनिरपेक्षता कृच्छ्रातिकृच्छ्रयोः सूचिता । चान्द्रा. यणस्य निरपेक्षता इतिशब्देन च त्रयाणां समुच्चयः । केवलप्राजापत्यस्य तु निरपेक्षं चतुर्विंशतिमतेऽभिहितम्-'लघुदोषे त्वनादिष्टे प्राजापत्यं समाचरेत्' इति । गौतमेनापि प्राजापत्यादे रपेक्षत्वमुक्तम्-'प्रथमं चरित्वा शुचिः पूतः
१ द्विगुणे व्रत आचीणे ङ. २ दोषव्यतिरेकेण ङ. ३ भाज्येनैवेति ङ. ४ चान्द्ररित्वति हु.
या० ४४
For Private And Personal Use Only