________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८६
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
लेशयः' इत्येकवस्त्रताया अपि शङ्खेन पाक्षिकत्वेनाभिधानात् । स्नाने च हारीतेन विशेष उक्तः - 'त्र्यवरं शुद्धवतीभिः स्नात्वाघमर्पणमन्तर्जले जपित्वा धौतमहतं वासः परिधाय साम्ना सौम्येनादित्यमुपतिष्ठेत' इति । स्नानानन्तरं च पवित्राणि जपेत् । पवित्राणि च 'अघमर्षणं देवकृतः शुद्धवत्यस्तरत्समाः ' इत्यादीनि वसिष्ठादिप्रतिपादितानामन्यतमान्यर्थाविरुद्धेषु कालेषु अन्तर्जले जपेत् सावित्रीं वा । ( ११।२२५ ) – 'सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः' इति मनुस्मरणात् । यत्तु गौतमेनोक्तम्- 'रौरवयोधां जपे नित्यं प्रयुञ्जीत' इति तदपि पवित्रत्वादेवोक्तं न पुनर्नियमाय । तथा सति श्रुत्यन्तरमूलत्वकल्पनाप्रसङ्गात् । अतोऽनधीतसामवेदेन गायत्र्यादिकमेव जप्तव्यम् । यदपि 'नमो हमाय मोहमाय इत्यादि पठित्वा एता एवाज्याहुतयः' इत्युक्तं तदपि न नैयमिकं किंतु ( ११।२२२ ) - महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम्' इति मनुना महाव्याहृतिभिर्होमविधानात् ॥ तथा षट्त्रिंशन्मतेऽप्युक्तम्- 'जपहोमादि यत्किचित्कृच्छ्रोक्तं संभवेन्न चेत् । सर्व व्याहृतिभिः कुर्याद्गायत्र्या प्रणवेन च ॥' इति । आदिग्रहणादुदकतर्पणादित्योपस्थानादेर्ग्रहणम् । अतएव वैशम्पायनः -- 'स्नात्वोपतिष्ठेदादित्यं सौरीभिस्तुः कृताञ्जलिः' इति ॥ एवमन्येष्वपि विरोधिपदार्थेषु विकल्प आश्रयणीयः । अविरोधिषु समुच्चयः । शाखान्तराधिकरणन्यायेन सर्वस्मृतिप्रत्ययत्वात्कर्मणः ॥ जपसंख्यायां विशेषस्तेनैव दर्शितः - 'ऋषभं विरजं चैव तथा चैवाघमर्पणम् । गायत्रीं वा जपेदेव पवित्रां वेदमातरम् || शतमष्टशतं वापि सहस्रमथवा परम् । उपांशु मनसा वापि तर्पयेत्पितृदेवताः ॥ मनुष्यांश्चैव भूतानि प्रणम्य शिरसा ततः ॥' इति ॥ तथा पिण्डांश्च प्रत्येकं गायत्र्या चाभिमन्त्रयेत् । तथा यमेनापि विशेष उक्तः -' - 'अङ्गुल्यग्रस्थितं पिण्डं गायत्र्या चाभिमन्त्रितम् । प्राश्याचम्य पुनः कुर्यादन्यस्याप्यभिमन्त्रणम् ॥' इति । अतश्च ॐ भूर्भुवः स्वरित्यादिभिर्गौतमोक्तैरभिमन्त्रणमन्त्रैः ः सहास्य विकल्प उक्तः । यत्पुनराप्यायस्व संतेपयसीत्यादिभिः पिण्डकरणात्पूर्वं हविषोऽभिमन्त्रणमुक्तं तद्भिन्नकार्यश्वात्समुच्चीयते । एतानि च कृच्छ्रादिव्रतानि यदा प्रायश्चित्तार्थमनुष्टिीयन्ते तदा केशादिवपनपूर्वकं परिगृहीतव्यानि । - ' वपनं व्रतं चरेत्' इति गौतमस्मरणात् । अभ्युदयार्थे तु नैव वपनम् । वसिष्ठेनाप्यत्र विशेष उक्तः - 'कृच्छ्राणां व्रतरूपाणां श्मश्रुकेशादि वापयेत् । कुक्षिरोमशिखावर्जम्' इति । कृच्छ्राणां व्रतरूपाणां । व्रतरूपाणि वपनादीन्यङ्गानि वक्ष्यन्त इति शेषः । पर्षदुपदिष्टवतग्रहणं च व्रतानुष्ठानदिवसात्पूर्वेद्युः सायाह्ने कार्यम् । यथाह वसिष्ठः - 'सर्वपापेषु सर्वेषां व्रतानां विधिपूर्वकम् । ग्रहणं संप्रवक्ष्यामि प्रायश्चित्ते चिकीर्षिते ॥ दिनान्ते नखरोमादीप्रवाप्य स्नानमाचरेत् । भस्मगोमयमृद्वारिपञ्चगव्यादिकल्पितैः ॥ मलापकर्षणं कार्य बाह्यशौचोपसिद्धये । दन्तधावनपूर्वेण पञ्चगव्येन संयुतम् ॥ व्रतं निशामुखे ग्राह्यं बहिस्तारकदर्शने । आचम्यातः परं मौनी ध्यायन्दुष्कृतमात्मनः ॥
१ आज्येन वेति पाठान्तरम्.
For Private And Personal Use Only