SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता। ४८५ शत्याद्यपेक्षया भुञ्जीतेत्येतत्पूर्वोक्तचान्द्रायणद्वयादपरं चान्द्रायणम् । अतस्तयो यं ग्राससंख्या नियमः किंतु पञ्चविंशत्यधिकशतद्वयसंख्यैव । मनुना चैते प्रकारा दर्शिताः (१११२१८-२२०)-'अष्टावष्टौ समश्नीयात्पिण्डान्मध्यन्दिने स्थिते । नियतात्मा हविष्यस्य यतिचान्द्रायणं चरेत् ॥ चतुरः प्रातरश्नीयात्पिण्डान्विप्रः समाहितः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं चरेत् ॥ यथाकथंचित्पिण्डानां तिस्रोऽशीतीः समाहितः । मासेनानन्हविष्यस्य चन्द्रस्यैति सलोकताम् ॥' इति । तथा चत्वारिंशच्छतद्वयन्यूनसंख्याग्राससंपाद्यस्यापि संग्रहार्थमपरग्रहणम् । यथाह यमः-'त्रीस्वीन्पिण्डान्समश्नीयान्नियतात्मा दृढव्रतः । हविष्यानस्य वै मासमृषिचान्द्रायणं स्मृतम् ॥' इति । एषु च यतिचान्द्रायणप्रभृतिषु न चन्द्रगत्यनुसरणमपेक्षितम् । अतस्त्रिंशदिनात्मकसाधारणेन मासेन नैरन्तर्येण चान्द्रायणानुष्टाने यदि कथंचित्तिथिवृद्धिहासवशात् पञ्चम्यादिष्वारम्भो भवति तथापि न दोषः । यदपि सौमायनाख्यं मासक्तं मार्कण्डेयेनोक्तम्-'गोक्षीरं सप्तरात्रं तु पिबेत्स्तनचतुष्टयात् । स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् ॥ स्तनेनैकेन षडानं विरानं वायुभुग्भवेत् । एतत्सोमायनं नाम व्रतं कल्मषनाशनम् ॥' इति । स्मृत्यन्तरे 'सप्ताहं चेत्येतद्दोस्तनमखिलमथ त्रीन्स्तनान्द्वौ तथैकं कुर्यात्स्त्रींश्चोपवासान्यदि भवति तदा मासि सोमायनं तत्' इति । तदपि चान्द्रायणकर्मकमेव । हारीतेनापि 'अथातश्चान्द्रायणमनुक्रमिप्यामः' इत्यादिना सेतिकर्तव्यताकं चान्द्रायणमभिधायैवमेव सोमायनमित्यतिदेशाभिधानात् । यत्पुनस्तेन कृष्णचतुर्थीमारभ्य शुक्लद्वादशीपर्यन्तं सोमायनमुक्तम् । चतुर्थीप्रभृतिचतुःस्तनेन त्रिरात्रं त्रिस्तनेन त्रिरात्रं द्विस्तनेन त्रिरात्रं एकस्तनेन त्रिरात्रमेवमेकस्तनप्रभृति पुनश्चतुःस्तनान्तं 'या ते सोम चतुर्थी तनूस्तया नः पाहि तस्यै नमः स्वाज्ञा, या ते सोम पञ्चमी षष्ठीत्येवं यागार्थास्तिथिहोमा ऐवं स्तुत्वा एनोभ्यः पूतश्चन्द्रमसः समानतां सलोकतां सायुज्यं च गच्छति' इति चतुर्विंशतिदिनात्मकं सोमायनमुक्तं तदशक्तविषयम् ॥ ३२४ ॥ अथ कृच्छ्रचान्द्रायणसाधारणीमितिकर्तव्यतामाह कुर्यात्रिषवणस्नायी कृच्छं चान्द्रायणं तथा । पवित्राणि जपेत्पिण्डान्गायत्र्या चाभिमत्रयेत् ॥ ३२५ ॥ कृच्छं प्राजापत्यादिकं चान्द्रायणं वा विषवणस्नानयुक्तः कुर्यात् । एतच्च तप्तकृच्छ्रव्यतिरेकेण । तत्र 'सकृत्स्नायी समाहितः' इति मनुना विशेषाभिधानात् ।। यत्पुनः शङ्खन कृच्छ्रेषु विषवणस्नानमभिहितम्-त्रिरह्नि त्रिर्निशायां तु सवासा जलमाविशेत्' इति तदशक्तविषयम् । यत्पुनर्वैशम्पायनेन द्वैकालिक स्नानमुक्तम्-'स्नानं द्विकालमेव स्यात्रिकालं वा द्विजन्मनः' इति तत्रिषवणस्नानाशक्तस्य वेदितव्यम् ॥ यत्पुनर्गाग्येणोक्तम्-'एकवासाश्चरेफ्रेक्षं स्नात्वा वासो न पीडयेत्' इति तदपि शक्तस्यैव । -'एकवासावासा वा लघ्वाशी स्थण्डि. १ स्तनान्ते ङ. एकमाप्त्वा ङ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy