________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९०
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः पादादिक्लह्या योजनीयम् । आवृत्तौ पुनश्चान्द्रायणादिकमिति एतद्दिगवलम्बनेनान्यत्रापि कल्पना कार्या । यत्पुनर्वृहस्पतिनोक्तम्-'जन्मप्रभृति यत्किंचित्पातकं चोपपातकम् । तावदावर्तयेत्कृच्छ्रे यावत्पष्टिगुणं भवेत् ॥' इति । तत् द्वे परदारे इति गौतमोक्तद्विवार्षिकसमानविषयम् । तथा त्रैमासिकादिविषयभू. तोपपातकावृत्तिविषयं वा । पातकपदाभिधेयचाण्डालादिस्त्रीगमने द्विरभ्यासविषयं वा । तत्र 'ज्ञानात्कृच्छ्राब्दमुद्दिष्टमज्ञानादैन्दवद्वयम्' इति सकृहुद्धिपूर्वगमने कृच्छ्राब्दविधानात्तदभ्यासे द्विवर्षतुल्यपष्टिकृच्छ्रविधानं युक्तमेव । यत्तु सुमन्तुनोक्तम्-'यदप्यसकृदभ्यस्तं बुद्धिपूर्वमचं महत् । तच्छुद्ध्यत्यन्दकृच्छ्रेण महतः पातकादृते ॥' इति तदप्युपपातकाद्यावृत्तिविषयं । तथा 'अज्ञानादैन्दवद्धयमिति यमोकैन्दवद्वयविषयभूतपातकावृत्तिविषयं वा । यस्तु तपस्यसमर्थो धान्यसमृद्धश्च स कृच्छ्रादिव्रतानि द्विजाग्यभोजनदानेन संपादयेत् । तथाहि स्मृत्यन्तरम्-'कृच्छ्रे पञ्चातिकृच्छ्रे त्रिगुणमहरहस्त्रिंशदेवं तृतीये चत्वारिंशञ्च तसे त्रिगुणितगुणिता विंशतिः स्यात्पराके । कृच्छ्रे सान्तापनाख्ये भवति षडधिका विंशतिः सैव हीना द्वाभ्यां चान्द्रायणे स्यात्तपसि कृशबलो भोजयेद्विप्रमुख्यान् ।' इति । अहरहरिति सर्वत्र संबन्धनीयम् । तृतीयः कृच्छ्रातिकृच्छ्रः । अत्र प्राजा. पत्यदिवसकल्पनया विद्वद्विप्राणां पष्टिभोजनं भवति । यत्तु चतुर्विंशतिमतेऽ. मिहितम्-'विप्रा द्वादश वा भोज्याः पावकेष्टिस्तथैव च । अन्या वा पावनी काचित्समान्याहुर्मनीषिणः ॥' इति प्राजापत्यस्थाने द्वादशानां विप्राणां भोजनमुक्तं तन्निर्धनविषयम् । यच्चान्द्रायणस्यापि तत्रैव प्रत्याम्नायाधुक्तम्-'चान्द्रायणं मृगारेष्टिः पवित्रेष्टिस्तथैव च । मित्रविन्दापशुश्चैव कृच्छ्रे मासत्रयं तथा ॥ नित्यनैमित्तिकानां च काम्यानां चैव कर्मणाम् । इष्टीनां पशुबन्धानामभावे चरवः स्मृताः ॥' इति तदपि चान्द्रायणाशक्तस्य । यत्तु कृच्छ्रे मासत्रयं तथेति कृच्छ्राष्टकं प्रत्याम्नातं तदपि जरटमूर्खविषयम् । चान्द्रायणं त्रिमिः कृच्छ्रेरिति दर्शित. त्वादित्यलं प्रपञ्चेन । प्रकृतमनुसरामः-यस्त्वभ्युदयकामो धर्मार्थं काम्यनियोगनिष्पत्यर्थमेतच्चान्द्रायणमनुतिष्ठति न पुनः प्रायश्चित्तार्थमसौ चन्द्रसालोक्यं स्वर्गविशेष प्राप्नोति । एतच्च संवत्सरावृत्त्यभिप्रायेण । एकमात्वा विपापो वि. पाप्मा सर्वमेनो हन्ति, द्वितीयमावा दशपूर्वान्दशापरानात्मानं चैकविंशं पङ्गिं च पुनाति, संवत्सरं चाहवा चन्द्रमसः सलोकतामामोती'ति गौतमस्मरणात् ॥
कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमाप्नुयात् ।
यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः ॥ ३७॥ किंच । यस्त्वभ्युदयकामः प्राजापत्यादिकृच्छ्राननुतिष्ठति स महती राज्यादिलक्षणां श्रियं विभूतिमनुभवति । यथा गुरुकतूनां राजसूयादीनां कर्ता तत्फलं स्वाराज्यादिलक्षणं महत्फलं लभते तथायमपि सुसमाहितः सकलाङ्गकलापम
१ अन्यद्वा पावनं किंचित्सममाहुर्मनीषिण इत्यपि पाठः.
For Private And Personal Use Only