________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता।
४९१
विकलमनुतिष्टनिति फलमहिमप्रकाशनार्थ ऋतुदृष्टान्तकीर्तनम् । सुसमाहित इत्यनेनाविकलशास्त्रानुष्ठानं वदन्काम्यकर्मतयाङ्गवैकल्ये फलासिद्धिं द्योतयति । अतो नात्र प्रायश्चित्तेष्विव यावत्संभवाङ्गानुष्ठानमङ्गीकरणीयमिति दूरोत्सारित प्रत्याम्नायोपादानम् । कृच्छ्राद्यनुष्ठानावृत्तौ तु 'अधिकारिणः फलावृत्तिः कर्मण्यारम्भभाव्यत्वादिति न्यायलभ्या स्थितैवेति नेदमविवक्षितम् ॥ ३२७ ॥
प्रागुदिताखिलार्थोपसंहारव्याजेन धर्मशास्त्रधारणादिविधीन्सार्थवादान्प्रार्थनावरदानरूपेण प्रतिपादयितुमाह
श्रुत्वैतानृषयो धर्मान्याज्ञवल्क्येन भाषितान् ।
इदमूचुर्महात्मानं योगीन्द्रममितौजसम् ।। ३२८ ।। .. अत्र हि वर्णाश्रमादिव्यावृत्ता धर्माः षट्प्रकाराः प्रतिपादिताः तानखिलान् । योगीश्वरभाषितान् ऋषयः श्रुत्वा प्रहर्षोत्फुल्ललोचनास्तं महिमगुणशालिनमचिन्तनीयशक्तिविभवमिदमभिधास्यमानमूचिवांसः ॥ ३२८ ॥
य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः। इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥ ३२९ ॥ विद्यार्थी प्राप्नुयाद्विद्यां धनकामो धनं तथा । आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् ॥ ३३० ॥ श्लोकत्रयमपि ह्यस्माद्यः श्राद्धे श्रावयिष्यति । पितॄणां तस्य तृप्तिः स्यादक्षय्या नात्र संशयः ॥ ३३१ ॥ ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् ।
वैश्यश्च धान्यधनवानस्य शास्त्रस्य धारणात् ॥ ३३२ ॥ इत्थमृज्वथैः श्लोकैः सामश्रवःप्रभृतयोऽनेकधा प्रार्थयन्तेस ३२९-३३२ अपरामपि प्रार्थनामाह
य इदं श्रावयेद्विद्वान्द्विजान्पर्वसु पर्वसु ।
अश्वमेधफलं तस्य तद्भवाननुमन्यताम् ॥ ३३३ ॥ यस्त्विदं धर्मशास्त्रं प्रतिपर्व द्विजान् श्रावयेत् तस्याश्वमेधफलं भवेदिति श्रावणविध्यर्थवादः । तदेतदस्मत्प्रार्थितमर्थं सर्वत्र भवाननुमन्यताम् ॥ ३३३ ॥ वरदानमाह
श्रुत्वैतद्याज्ञवल्क्योऽपि प्रीतात्मा मुनिभाषितम् । . एवमस्त्विति होवाच नमस्कृत्य स्वयंभुवे ॥ ३३४ ।। १ श्रुत्वेमामृषयो ङ.
For Private And Personal Use Only