Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 512
________________ Shri Mahavir Jain Aradhana Kendra ४८० याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः पलाशोदुम्बरारविन्द श्रीवृक्षपर्णानामेकैकेन कथितमुदकं प्रत्यहं पिबेत् । कुशोदकं चैकस्मिन्नहनीति पञ्चाहसाध्यः पर्णकृच्छ्रः । यदा तु पर्णादीनामेकी कृतानां काथस्त्रिरात्रान्ते पीयते तदा पर्णकूर्चः । यथाह यमः - ' एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा पिवेदद्भिः पर्णकूचऽभिधीयते ॥' इति । यदा तु बिल्वादिफलानि प्रत्येकं कथितानि मासं पीयन्ते तदा फलकृच्छ्रादिव्यपदेशं लभन्ते । यथाह मार्कण्डेयः - 'फलैर्मासेन क्वथितः फलकृच्छ्रो मनीषिभिः । श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैरपरस्तथा ॥ मासेनामलकैरेवं श्रीकृच्छ्रमपरं स्मृतम् । पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते ॥ मूलकृच्छ्रः स्मृतो मूलैस्तो कृच्छ्रो जलेन तु ॥ ' इति ॥ ३१६ ॥ इति पर्णकृच्छ्र एकादशविधः । तप्तकृच्छ्रमाह www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥ ३१७ ॥ पादकृच्छ्रमाह दुग्धसर्पिरुदकानां तप्तानामेकैकं प्रतिदिवस प्राश्यापरेद्युरुपवसेत् । एष दिवसचतुष्टयसंपाद्यो महातप्तकृच्छ्रः । एभिरेव समस्तैः सोपवासैर्द्विरात्र संपाद्यः सान्तपनवत्तप्तकृच्छ्रः । मनुना तु द्वादशरात्रनिर्वत्यऽभिहितः ( ११२१४ ॥ - 'तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् । प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी स माहिताः ॥ ' इति । क्षीरादिपरिमाणं तु पराशरेणोक्तं द्रष्टव्यम् । 'अपां पिबेत्तु त्रिपलं द्विपलं तु पयः पिबेत् । पलमेकं पिबेत्सर्पिखिरात्रं चोष्णमारुतम् ॥' इति । त्रिरात्रमारुतस्य पूरणे उष्णोदकबाष्पं पिबेदित्यर्थः । यदा तु शीतं क्षीरादि पीयते तदा शीतकृच्छ्रः । - 'यहं शीतं पिबेत्तोयं त्र्यहं शीतं पयः पिबेत् । त्र्यहं शीतं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥' इति यमस्मरणात् ॥ ३१७ ॥ इति तप्तकृच्छ्रश्चतुर्विधः । एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ॥ ३१८ ॥ एकभक्तेन सकृद्धोजनेन दिवैव । नक्तेनेति पृथगुपादानात् । अतश्च दिवैवैकवारमेव भोजनेनैवैकमहोरात्रमतिवाहयेदिति । तत्र दिवेति रात्रिव्युदासः । एक. वारमिति द्विवारा दिव्युदासः । भोजनेनेत्यभोजनव्युदासः । एतच्च कृच्छ्रादीनां व्रतरूपत्वात् पुरुषार्थ भोजनपर्युदासेन कृच्छ्राङ्गभूतं भोजनं विधीयते । तथाचापस्तम्बः – 'त्र्यहमनक्ताश्यदिवाशी च ततख्यहं । त्र्यहमयाचितव्रतरुयहं नाश्नाति किंचन' इति । अत्र चानक्ताशीत्यनेन व्रतविहितेन णिनिप्रत्ययेन नक्तपर्युदासेन दिवाभोजननियमं दर्शयति । गौतमेनापीदमेव स्पष्टीकृतम्' हविष्यान्प्रातरा १ त्रिरात्रस्य मारुतस्य ख. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554