Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 518
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८६ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः लेशयः' इत्येकवस्त्रताया अपि शङ्खेन पाक्षिकत्वेनाभिधानात् । स्नाने च हारीतेन विशेष उक्तः - 'त्र्यवरं शुद्धवतीभिः स्नात्वाघमर्पणमन्तर्जले जपित्वा धौतमहतं वासः परिधाय साम्ना सौम्येनादित्यमुपतिष्ठेत' इति । स्नानानन्तरं च पवित्राणि जपेत् । पवित्राणि च 'अघमर्षणं देवकृतः शुद्धवत्यस्तरत्समाः ' इत्यादीनि वसिष्ठादिप्रतिपादितानामन्यतमान्यर्थाविरुद्धेषु कालेषु अन्तर्जले जपेत् सावित्रीं वा । ( ११।२२५ ) – 'सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः' इति मनुस्मरणात् । यत्तु गौतमेनोक्तम्- 'रौरवयोधां जपे नित्यं प्रयुञ्जीत' इति तदपि पवित्रत्वादेवोक्तं न पुनर्नियमाय । तथा सति श्रुत्यन्तरमूलत्वकल्पनाप्रसङ्गात् । अतोऽनधीतसामवेदेन गायत्र्यादिकमेव जप्तव्यम् । यदपि 'नमो हमाय मोहमाय इत्यादि पठित्वा एता एवाज्याहुतयः' इत्युक्तं तदपि न नैयमिकं किंतु ( ११।२२२ ) - महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम्' इति मनुना महाव्याहृतिभिर्होमविधानात् ॥ तथा षट्त्रिंशन्मतेऽप्युक्तम्- 'जपहोमादि यत्किचित्कृच्छ्रोक्तं संभवेन्न चेत् । सर्व व्याहृतिभिः कुर्याद्गायत्र्या प्रणवेन च ॥' इति । आदिग्रहणादुदकतर्पणादित्योपस्थानादेर्ग्रहणम् । अतएव वैशम्पायनः -- 'स्नात्वोपतिष्ठेदादित्यं सौरीभिस्तुः कृताञ्जलिः' इति ॥ एवमन्येष्वपि विरोधिपदार्थेषु विकल्प आश्रयणीयः । अविरोधिषु समुच्चयः । शाखान्तराधिकरणन्यायेन सर्वस्मृतिप्रत्ययत्वात्कर्मणः ॥ जपसंख्यायां विशेषस्तेनैव दर्शितः - 'ऋषभं विरजं चैव तथा चैवाघमर्पणम् । गायत्रीं वा जपेदेव पवित्रां वेदमातरम् || शतमष्टशतं वापि सहस्रमथवा परम् । उपांशु मनसा वापि तर्पयेत्पितृदेवताः ॥ मनुष्यांश्चैव भूतानि प्रणम्य शिरसा ततः ॥' इति ॥ तथा पिण्डांश्च प्रत्येकं गायत्र्या चाभिमन्त्रयेत् । तथा यमेनापि विशेष उक्तः -' - 'अङ्गुल्यग्रस्थितं पिण्डं गायत्र्या चाभिमन्त्रितम् । प्राश्याचम्य पुनः कुर्यादन्यस्याप्यभिमन्त्रणम् ॥' इति । अतश्च ॐ भूर्भुवः स्वरित्यादिभिर्गौतमोक्तैरभिमन्त्रणमन्त्रैः ः सहास्य विकल्प उक्तः । यत्पुनराप्यायस्व संतेपयसीत्यादिभिः पिण्डकरणात्पूर्वं हविषोऽभिमन्त्रणमुक्तं तद्भिन्नकार्यश्वात्समुच्चीयते । एतानि च कृच्छ्रादिव्रतानि यदा प्रायश्चित्तार्थमनुष्टिीयन्ते तदा केशादिवपनपूर्वकं परिगृहीतव्यानि । - ' वपनं व्रतं चरेत्' इति गौतमस्मरणात् । अभ्युदयार्थे तु नैव वपनम् । वसिष्ठेनाप्यत्र विशेष उक्तः - 'कृच्छ्राणां व्रतरूपाणां श्मश्रुकेशादि वापयेत् । कुक्षिरोमशिखावर्जम्' इति । कृच्छ्राणां व्रतरूपाणां । व्रतरूपाणि वपनादीन्यङ्गानि वक्ष्यन्त इति शेषः । पर्षदुपदिष्टवतग्रहणं च व्रतानुष्ठानदिवसात्पूर्वेद्युः सायाह्ने कार्यम् । यथाह वसिष्ठः - 'सर्वपापेषु सर्वेषां व्रतानां विधिपूर्वकम् । ग्रहणं संप्रवक्ष्यामि प्रायश्चित्ते चिकीर्षिते ॥ दिनान्ते नखरोमादीप्रवाप्य स्नानमाचरेत् । भस्मगोमयमृद्वारिपञ्चगव्यादिकल्पितैः ॥ मलापकर्षणं कार्य बाह्यशौचोपसिद्धये । दन्तधावनपूर्वेण पञ्चगव्येन संयुतम् ॥ व्रतं निशामुखे ग्राह्यं बहिस्तारकदर्शने । आचम्यातः परं मौनी ध्यायन्दुष्कृतमात्मनः ॥ १ आज्येन वेति पाठान्तरम्. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554