Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८४
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
पदि प्रक्रम्य पूर्वोक्तकमेणानुष्ठीयते तदा पिपीलिकावन्मध्ये हसिष्ठं भवतीति पिपीलिकमध्यमिति कथ्यते । तथाहि । पूर्वोक्तक्रमेण कृष्णप्रतिपदि चतु. र्दश ग्रासान् भुक्त्वा एकैकग्रासापचयेन चतुर्दशी यावद्भुञ्जीत । ततश्चतुर्दश्यामेकं प्रासं ग्रसित्वामावास्यायामुपोष्य शुक्लप्रतिपद्येकमेव ग्रासं प्राश्नीयात् । तत एकैकोपचयभोजनेन पक्षशेषे निर्वय॑माने पौर्णमास्यां पञ्चदश प्रासाः संपद्यन्त इति युक्तैव पिपीलिकामध्यता । तथाच वसिष्ठः-मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश । प्रासापचयभोजी सन्पक्षशेषं समापयेत् ॥ तथैव शुक्लपक्षादौ ग्रासं भुञ्जीत चापरम् । ग्रासोपचयभोजी सन्पक्षशेष समापयेत् ॥' इति ॥ यदा त्वेकस्मिन्पक्षे तिथिवृद्धिहासवशात् पोडशदिनानि भवन्ति चतुर्दश वा तदा ग्रासानामपि वृद्धि हासौ वेदितव्यौ । तिथिवृद्ध्या पिण्डांश्चरेदिति नियमात् । गौतमेनात्र विशेषो दर्शितः-'अथातश्चान्द्रायणं तस्योक्तो विधिः कृच्छ्रे वपनं च व्रतं चरेत् श्वोभूतां पौर्णमासीमुपवसेत् आप्यायस्व संतेपयांसि नवो. नव इति चैताभिस्तर्पणमाज्यहोमो हविपश्चाशुमन्त्रणमुपस्थानं च चन्द्रमसः यद्देवादेवहेडनमिति चतसृभिराज्यं जुहुयाद्देवकृतस्येति चान्ते समिद्भिस्त्रिभिः
भूः भुवः स्वः महः जनः तपः सत्यं यशः श्रीः उ इट ओजः तेजः पुरुषः धर्मः शिवः इत्येतै सानुमन्त्रणं प्रतिमन्त्रं मनसा नमः स्वाहेति वा सर्वानेतैरेव ग्रासान्भुञ्जीत । तद्रासप्रमाणमास्याविकारेण चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरं प्रशस्यानि । पौर्णमास्यां पञ्चदश प्रासान् भुक्त्वा एकैकापचयेनापरपक्षमश्नीयात् । अमावास्यायामुपोप्यैकैकोपचयेन पूर्वपक्षं विपरीतमेकेषामेव चान्द्रायणो मासः' इति । अत्र ग्रासप्रमाणमास्याविकारेणेति यदुक्तं तद्बालाभिप्रायम् । तेषां शिख्यण्डपरिमितिपञ्चदशग्रासभोजनाशक्तेः । क्षीरादिहविष्षु शिख्यण्डपरिमितत्वं तु पर्णपुटकादिना संपादनीयम् । तथा कुकुटाण्डामलकादीनि तु ग्रासपरिमाणानि स्मृत्यन्तरोक्तानि शक्तिविषयाणि शिख्यण्डपरिमाणाल्लघुत्वात्तेषाम् । यत्पुनरत्र श्वोभूतां पौर्णमासीमुपवसेदित्यत्र चतुर्दश्यामुपवासमभिधाय पौर्णमास्यां पञ्चदशनासान्भुक्त्वेत्यादिना द्वात्रिंशदहरात्मकत्वं चान्द्रायणस्योक्तं तत्पक्षान्तरप्रदर्शनार्थ न सार्वत्रिकम् । योगीश्वरवचनानुरोधेन त्रिंशदहरात्मकस्य दर्शितत्वात् । यद्येतत्सार्वत्रिकं स्या. त्तदा नैरन्तर्येण संवत्सरे चान्द्रायणानुष्ठानानुपपत्तिः स्यात् । चन्द्रगत्यनुवर्तनानुपपत्तिश्च ॥ ३२३ ॥ चान्द्रायणान्तरमाह
यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् ।
मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् ॥ ३२४ ॥ पिण्डानां चत्वारिंशदधिकं शतद्वयं मासेन भुञ्जीत । यथाकथंचित्प्रतिदिनं मध्याह्नेऽष्टौ ग्रासान्, अथवा नक्तंदिनयोश्चतुरश्चतुरो वा, अथवैकस्मिंश्चतुरोऽपरमिन्द्वादश वा तथैकरात्रमुपोष्यापरस्मिन्पोडश वेत्यादिप्रकाराणामन्यतमेन
For Private And Personal Use Only

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554