Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 508
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७६ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः चतुर्विंशतिमते उक्तम्-'गायत्र्यास्तु जपन्कोटिं ब्रह्महत्यां व्यपोहति । लक्षाशीतिं जपेद्यस्तु सुरापानाद्विमुच्यते ॥ पुनाति हेमहर्तारं गायत्र्या लक्षसप्ततिः । गायत्र्या लक्षषष्ट्या तु मुच्यते गुरुतल्पगः ॥' इति, तद्गुरुत्वात्प्रकाशविषयम् । तथा रुद्रैकादशिनी एकादशानां रुद्रानुवाकानां समाहारो रुद्रैकादशिनी । साच विशेषतो जप्ता सर्वपापहरा । 'एकादशगुणान्वापि रुद्रानावर्त्य धर्मवित् । म. हन्यः स तु पापेभ्यो मुच्यते नात्र संशयः ॥' इति महापातकेष्वेकादशगुणावृत्तिदर्शनात् अतिपातकादिषु चतुर्थचतुर्थांशहासो योजनीयः । चशब्दोऽघमर्पणादिसमुच्चयार्थः । यथाह वसिष्टः–'सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम् । येषां जपैश्च होमैश्च पूयन्ते नात्र संशयः ॥ अघमर्षणं देवकृतं शुद्धवत्यस्तरसमाः। कूष्माण्ड्यः पावमान्यश्च र्दुर्गा सावित्र्यथैव च ॥ अभीषङ्गाः पैदस्तोमाः सोमानि व्याहतीस्तथा । भौरदण्डानि सामानि गायत्रं रैवतं ती ॥ पुरुषवतं च भासं च तथा देवव्रतानि च । ऑविगं बोर्हस्पत्यं च वाक्सूक्तं मध्वृचस्तथा ॥ शैतरुद्रियाँथर्वशिरास्त्रिसुपर्ण महानतम् । गोसूक्तं चाश्वसूक्तं च इन्द्रशुद्ध च सामनी ॥ त्रीण्याज्यदोहानि रथेन्तरं च अग्नेक्र्तं वामदेव्यं बृहच्च । एतानि गीतानि पुनन्ति जन्तूनातिस्मरत्वं लभते यदीच्छेत् ॥' इति ॥ ३०८ ॥ यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः ।। तत्र तत्र तिलैोमो गायच्या वाचनं तथा ॥ ३०९ ॥ किंच । यत्र यत्र च ब्रह्मवधादौ तजनितकल्मषजातेनात्मानं संकीर्णमभिभूतं द्विजो मन्यते तत्र तत्र गायत्र्या तिलैोमः कार्यः । तत्र महापातकेषु लक्षसंख्यया होमः कार्यः । 'गायच्या लक्षहोमेन मुच्यते सर्वपातकैः' इति यमस्मरणात् । अतिपातकादिषु पादपादहासः कल्पनीयः । तथा तिलैवाचनं दानं कार्यम् । १ सर्वदेवपवित्राणीति पाठः. २ अघमर्षणमृतं च सत्यमित्यादि. ३ देवकृतं देवकृतस्यैनस इत्यायक. ४ शुद्धवत्यः एतोन्विन्द्रं स्तवामेत्याद्या ऋचः. ५ तरत्समास्तरत्समन्दीत्याचः. ६ कूष्माण्ड्यः यद्देवादेवहेडनमित्याद्याः ७ पावमान्यः स्वादिष्ठया मदिष्ठयेत्याद्याश्चत्वारोऽध्यायाः. ८ दुर्गा जातवेदसे सुनवामेत्यादिसूक्तम्. ९ सावित्रीर्देवस्यत्वेत्याचः. १० अ. भीषङ्गास्तदाख्या मत्रविशेषाः. ११ पदस्तोमाः उत्सोदेवाहिरण्यया इत्यादयः. १२ सामानि साधारणानि. १३ व्याहृतीः भूरग्नये च पृथिव्यै चेत्यादिकाः. १४ भारदण्डानि सामानि अमआयाहीत्यादीनि. १५ गायत्रं सामविशेषः. १६ रैवतं रेवतीनः सधमाद इत्यादि. १७ पुरुषव्रतं वैश्वानरमित्यादि. १८ भासं अग्नेव्रतपत इत्यादि. १९ देवव्रतं अनृतात्सत्यमुपैमीत्यादि. २० आत्विगं ऋत्विग्भ्रषमत्रा बौधायनीयाः. २१ बार्हस्पत्यं बृहस्पते प्रथमं वाचो इत्यादि. २२ वाक्सूक्तं ओष्ठापिधानेत्यादि. २३ मध्वृचः मधुवाता इत्यादयः. २४ शतरुद्रियं नमस्ते रुद्र मन्यव इत्यादि. २५ अथर्वशिरः देवा ह वै स्वर्गमित्यादि. २६ त्रिसुपर्ण ब्रह्ममेतुमामित्यादि. २७ महाव्रतं अथ महाव्रतमित्यादि. २८ गोसूक्तं आगावो अग्मन्नित्यादि. २९ अश्वसूक्तं अयं ते अस्तु हर्यत इत्यादि. ३० इन्द्राय सामगायतेत्याये इन्द्रशुद्धसामनी. ३१ आज्यदोहमित्यादीनि त्रीण्याज्यदोहानि. ३२ रथन्तरं सामविशेषः. ३३ अग्नेव्रतम्. ३४ वामदेव्यं कयानश्चित्र इत्यादि. ३५ बृहत्साम सामविशेषः. ३६ दोषजातेन ख. ३७ गायत्र्या लक्षहोमः ख. ३८ वाचनं दानं तिलैरित्यत्रापि संबध्यते. तिलदाननित्यर्थः. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554