Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । उपपातकसामान्यप्राप्तस्य प्राणायामशतस्यापवादमाह
ओङ्काराभिष्टुतं सोमसलिलं पावनं पिबेत् ।
कृत्वा हि रेतोविण्मूत्रप्राशनं तु द्विजोत्तमः ॥ ३०६ ॥ द्विजो रेतोविण्मूत्रप्राशनं कृत्वा सोमलतारसमोङ्कारेणाभिमन्त्रितं शुद्धिसाधनं पिबेत् । एतच्चाकामकारविषयम् । कामतस्तु सुमन्तूक्तम्-रेतोविण्मूत्रप्राशनं कृत्वा लशुनपलाण्डुगृञ्जनकुम्भिकादीनामन्येषां चाभक्ष्याणां भक्षणं कृत्वा हंसग्रामकुक्कुटश्वसृगालादिमांसभक्षणं च कृत्वा ततः कण्ठमात्रमुदकमवतीर्य शुद्धवतीभिः प्राणायामं कृत्वा महाव्याहृतिभिरुरोगमुदकं पीत्वा तदेतस्मात्पूतो भवतीति । मनुनापि सप्तविधाभक्ष्यभक्षणे प्रायश्चित्तान्तरमुक्तम् (१११२५३)'प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् । जपंस्तरत्समन्दीयं पूयते मानवस्यहात् ॥' इति । अप्रतिग्राह्यं विषशस्त्रसुरादि पतितादिद्रव्यं च । यदा त्वप्सु रेतोविण्मूत्रादिशारीरं मलं विसृजति तदापि तेनैवोक्तम्-'भप्रशस्तं तु कृत्वाप्सु मासमासीत भैक्ष्यभुक्' इति ॥ ३०६ ॥ अज्ञानकृते प्रकीर्णके मानसे चोपपातके प्रायश्चित्तमाह
निशायां वा दिवा वापि यदज्ञानकृतं भवेत् ।
त्रैकाल्यसंध्याकरणात्तत्सर्वं विप्रणश्यति ॥ ३०७॥ रजन्यां वासरे वा यत्प्रमादकृतं प्रकीर्णकं मानसं वाचिकं चोपपातकं तत्सर्व प्रातर्मध्याह्नादिकालत्रयविहितनित्यसंध्योपासनया प्रणश्यति । तथाच यमः'यदलात्कुरुते पापं कर्मणा मनसा गिरा । आसीनः पश्चिमां संध्यां प्राणायामैनिहन्ति तत् ॥' इति । शातातपेनाप्युक्तम्-'अनृतं मद्यगन्धं च दिवा मैथुनमेव च । पुनाति वृषलान्नं च संध्या बहिरुपासिता ॥' इति ॥ ३०७ ॥ अथ सकलमहापातकादिसाधारणान्पवित्रमन्त्रानाह--
शुक्रियारण्यकजपो गायत्र्याश्च विशेषतः।
सर्वपापहरा ह्येते रुद्रैकादशिनी तथा ॥ ३०८ ॥ शुक्रियं नाम आरण्यकविशेषः विश्वानि देव सवितः' इत्यादिवाजसनेयके पठ्यते, आरण्यकं च यजुः 'ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये' इत्यादि तत्रैव पठ्यते तयोर्जपः सकलमहापातकादिहरः । तथा गायत्र्याश्च महापातकेषु लक्षमतिपातकोपपातकयोर्दशसहस्रमुपपातकेषु सहस्रं प्रकीर्णकेषु शतमित्येवं विशेषतो जपः सर्वपापहरः। तथाच गायत्रीमधिकृत्य श्लोकः शङ्खनोक्तः-'शतं जप्ता तु सावित्री महापातकनाशिनी । सहस्रजप्ता तु तथा पातकेभ्यः प्रमोचिनी ॥ दशसाहस्रजाप्येन सैर्वकिल्बिषनाशिनी । लक्षं जप्ता तु सा देवी महापातकनाशिनी ॥ सुवर्णस्तेयकृद्विप्रो ब्रह्महा गुरुतल्पगः । सुरापश्च विशुध्यन्ति लक्षं जलवा न संशयः ॥' इति ॥ यत्तु १ चाभक्ष्यभक्षणं ख. २ सा देवी ङ. ३ कल्मषनाशिनी ङ.
या०४३
For Private And Personal Use Only

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554