Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 505
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता। ४७३ संख्याकस्य 'अस्यवामस्थपलितस्यहोतुः' इति सूक्तस्य तथा 'यजाप्रतोदूरमुदैतुदैवम्' इति शिवससंकल्पदृष्टस्य पऋचस्य वा सकृजप उक्तः सोऽत्यन्तनिर्गुणस्वामिकस्वर्णहरणे गुणवतोऽपहर्तुष्टव्यः । सुवर्णन्यूनपरिमाणविषयोऽनुग्राहकप्रयोजकविपयो वा । आवृत्तौ तु 'महापातकसंयुक्तोऽनुगच्छेत्' इत्यादिनोक्तं द्रष्टव्यम् ॥ ३०३ ॥ क्रमप्राप्तं गुरुतल्पगप्रायश्चित्तमाह सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः। गौर्देया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी ॥३०४॥ गुरुतल्पगस्तु सहस्त्रशीति पोडशर्चसूक्तं नारायणदृष्टं पुरुषदैवत्यमानुष्टुभं त्रिष्टुबन्तं जपंस्तस्मात्पापान्मुच्यते । सहस्रशीर्षाजापीति ताच्छील्यप्रत्ययादावृत्तिर्गम्यते । अतएव यमेनोक्तम्- 'पौरुषं सूक्तमावर्त्य मुच्यते सर्वकिल्बिषात्' इति । आवृत्तौ च संख्यापेक्षायामधस्तनश्लोकगता चत्वारिंशत्संख्यानुमीयते । अत्रापि प्राक्तनश्लोकगतं त्रिरात्रोपोषित इति संबध्यते । अतएव बृहद्विष्णुः'त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः शुध्येत्' इति । एभिश्च सुरापसुवर्णस्तेनगुरुतल्पगैस्त्रिभिः पृथक्पृथगस्य त्रिराबवतस्यान्ते बहुक्षीरा गौर्दया । इदमकामविषयम् । यत्तु मनुना (११।२५१)--'हविष्पान्तीयमभ्यस्य नतमंह इतीति च । जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥' इति । 'हविष्पान्तमजरंस्वर्विदं', 'नतमंहोनदुरितं', 'इति वा इति मे मनः', 'सहस्रशीर्षे'त्येषामन्यतमस्य मासं प्रत्यहं षोडशषोडशकृत्वो जप उक्तः सोऽप्यकामविषय एव । कामतस्तु 'मन्त्रैः शाकलहोमीयैः' इति मनूक्तं द्रष्टव्यम् । यत्तु षट्त्रिंशन्मतेऽभिहितम्'महाव्याहृतिभिर्होमस्तिलैः कार्यों द्विजन्मना । उपपातकशुद्ध्यर्थं सहस्रपरिसंख्यया ॥ महापातकसंयुक्तो लक्षहोमेन शुध्यति ॥' इति. तदावृत्तिविषयम् । यत्तु यमेनोक्तम्-'जपेद्वाप्यस्य वामीयं पावमानीरथापि वा । कुन्तापं वालखिल्यांश्च निवित्प्रैषान्वृषाकपिम् ॥ होतृरुद्रान्सकृजप्त्वा मुच्यते सर्वपातकैः ॥' इति तब्यभिचारिणीगमनविषयम् ॥ यानि पुनः गुरुतल्पातिदेशविषयाणि तत्समानि वातिपातकोपपातकपदाभिधेयानि तेषु तुरीयांशन्यूनमोनं च क्रमेण वेदितव्यम् । पातकातिपातकोपपातकमहापातकानामेकतमे संनिपाते वा अधम णमेव त्रिजपेदिति हारीतोक्तं वा द्रष्टव्यम् । महापातकसंसर्गिणश्च स तस्यैव व्रतं कुर्यादिति वचनायेन सह संसर्गस्तदीयमेव प्रायश्चित्तम् । नच वाच्यं अत्राध्यापनादिसंसर्गस्यानेककर्तृकसंपाद्यत्वादहस्यत्वानुपपत्तिरिति । यतः सत्यप्यनेककर्तृत्वे परदारगमनवत् कर्तृव्यतिरिक्ततृतीयाद्यपरिज्ञानमात्रेणैव रहस्यत्वम् । अतो भवत्येव रहस्यप्रायश्चित्तम् । एवमतिपातक्यादिसंसर्गिणोऽपि तदीयमेव प्रायश्चित्तं वेदितव्यम् ॥ ३०४ ॥ ॥ इति महापातकरहस्यप्रायश्चित्तप्रकरणम् ॥ १ षोडशऋचां चत्वारिंशत्संख्याकजप उक्तः ख. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554