Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः क्रमप्राप्तं गोवधादिषट्पञ्चाशदुपपातकप्रायश्चित्तमाह
प्राणायामशतं कार्य सर्वपापापनुत्तये ।
उपपातकजातानामनादिष्टस्य चैव हि ॥ ३०५ ॥ गोवधादिषट्पञ्चाशदुपपातकजातानामनादिष्टरहस्यव्रतानां च जातिभ्रंशकरादीनां सर्वेषामपनुत्तये प्राणायामानां शतं कार्यम् । तथा सर्वेषां महापातकादीनां प्रकीर्णकान्तानामप्यपनुत्तये प्राणायामाः कार्याः । तत्र च महापातकेषु चतुःशतम् , अतिपातकेषु त्रिशतम् , अनुपातकेषु द्विशतमिति संख्याविवृद्धिः कल्पनीया । प्रकाशप्रायश्चित्तेषु महापातकप्रायश्चित्ततुरीयांशस्योपपातकेषु विधानदर्शनात् प्रकीर्णकेषु च ह्रासः कल्प्यः । अतएवोक्तं यमेन–'दशप्रणवसंयुक्तैः प्राणायामैश्चतुःशतैः । मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ॥' इति । बौधायनेनाप्यत्र विशेष उक्तः-'अपिवाक्चक्षुःश्रोत्रस्वध्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैः शुद्ध्यति । शूद्रस्त्रीगमनान्नभोजनेषु पृथक्पृथक् सप्ताह सप्त प्राणायामान्धारयेत् । अभक्ष्याभोज्यामध्यप्राशनेषु तथा वाऽपण्यविक्रयेषु मधुमांसघृततैललाक्षालवणरसामवर्जितेषु यच्चान्यदप्येवं युक्तं स्थावादशाहं द्वादश द्वादश प्राणायामान्धारयेत् । अथ पातकोपपातकवज्यं यच्चाप्यन्यदप्येवं युक्तं स्यादर्धमासं द्वादश द्वादश प्राणायामान्धारयेत् उपपातकपतनीयवर्ज यच्चाप्यन्यदेवं युक्तं स्यान्मासं द्वादशार्धमासान् द्वादशद्वादश प्राणायामान्धारयेत् । अन्यपातकवयं यच्चान्यदप्येवं युक्तं द्वादश अर्धमासान् द्वादश प्राणायामान् धारयेत् । अथ पातकेषु संवत्सरं द्वादशद्वादश प्राणायामान धारयेदिति । तत्र वाक्चक्षुरित्यादिप्राणायामवयं प्रकीर्णकाभिप्रायम् । शूद्रस्त्रीगमनानभोजनेत्यादिनोक्ता एकोनपञ्चाशत्प्राणायामा उपपातकविशेषाभिप्रायाः । तथा अभक्ष्याभो. ज्येत्यादिनोक्ताश्चतुश्चत्वारिंशदधिकशतप्राणायामा अप्युपपातकविशेषाभिप्राया एव । अथ पातकोपपातकवय॑मित्यादिनोक्ताः साशीतिशतप्राणायामा जातिभ्रंशकराद्यभिप्रायाः। अथ पातकपतनीयवर्ण्यमित्यादिनोक्ताः षष्ट्यधिकशतत्यप्राणायामाः गोवधाधुपपातकाभिप्रायाः । अथ पातकवयमित्यादिनोक्ताः पष्ट्यधिकद्विशतसहितद्विसहस्त्रसंख्याकाःप्राणायामाः अतिपातकानुपपातकाभिप्रायाः। अथ पातकेवित्यादिनोक्ता विंशत्यधिकशतत्रययुक्ताश्चतुःसहस्रप्राणायामा महापातकविषयाः । इदं चाभक्ष्यभोज्येत्यादिनोक्तं प्रायश्चित्तपञ्चकमत्यन्ताभ्यासविपयं, समुच्चितविषयं वा । यत्तु मनुना । (११२२५२)—'एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् । अवेत्युचं जपेदब्दं यत्किंचेदमितीति वा ॥' इत्यब्दं यावत्प्रत्यहमर्थान्तराविरुद्धेषु कालेषु 'अवतेहेळोवरुण' इत्यस्या ऋचो 'यत्किंचेदम्' इत्यस्याः, 'इति वा इतिमेमनः' इत्यस्याश्च जप उक्तः सोऽप्यभ्यासविषयः ॥ ३०५॥
१ अर्धमासद्वादशद्वादश ख. २ पातवय॑मित्यादि ख.
For Private And Personal Use Only

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554