SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७४ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः क्रमप्राप्तं गोवधादिषट्पञ्चाशदुपपातकप्रायश्चित्तमाह प्राणायामशतं कार्य सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥ ३०५ ॥ गोवधादिषट्पञ्चाशदुपपातकजातानामनादिष्टरहस्यव्रतानां च जातिभ्रंशकरादीनां सर्वेषामपनुत्तये प्राणायामानां शतं कार्यम् । तथा सर्वेषां महापातकादीनां प्रकीर्णकान्तानामप्यपनुत्तये प्राणायामाः कार्याः । तत्र च महापातकेषु चतुःशतम् , अतिपातकेषु त्रिशतम् , अनुपातकेषु द्विशतमिति संख्याविवृद्धिः कल्पनीया । प्रकाशप्रायश्चित्तेषु महापातकप्रायश्चित्ततुरीयांशस्योपपातकेषु विधानदर्शनात् प्रकीर्णकेषु च ह्रासः कल्प्यः । अतएवोक्तं यमेन–'दशप्रणवसंयुक्तैः प्राणायामैश्चतुःशतैः । मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ॥' इति । बौधायनेनाप्यत्र विशेष उक्तः-'अपिवाक्चक्षुःश्रोत्रस्वध्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैः शुद्ध्यति । शूद्रस्त्रीगमनान्नभोजनेषु पृथक्पृथक् सप्ताह सप्त प्राणायामान्धारयेत् । अभक्ष्याभोज्यामध्यप्राशनेषु तथा वाऽपण्यविक्रयेषु मधुमांसघृततैललाक्षालवणरसामवर्जितेषु यच्चान्यदप्येवं युक्तं स्थावादशाहं द्वादश द्वादश प्राणायामान्धारयेत् । अथ पातकोपपातकवज्यं यच्चाप्यन्यदप्येवं युक्तं स्यादर्धमासं द्वादश द्वादश प्राणायामान्धारयेत् उपपातकपतनीयवर्ज यच्चाप्यन्यदेवं युक्तं स्यान्मासं द्वादशार्धमासान् द्वादशद्वादश प्राणायामान्धारयेत् । अन्यपातकवयं यच्चान्यदप्येवं युक्तं द्वादश अर्धमासान् द्वादश प्राणायामान् धारयेत् । अथ पातकेषु संवत्सरं द्वादशद्वादश प्राणायामान धारयेदिति । तत्र वाक्चक्षुरित्यादिप्राणायामवयं प्रकीर्णकाभिप्रायम् । शूद्रस्त्रीगमनानभोजनेत्यादिनोक्ता एकोनपञ्चाशत्प्राणायामा उपपातकविशेषाभिप्रायाः । तथा अभक्ष्याभो. ज्येत्यादिनोक्ताश्चतुश्चत्वारिंशदधिकशतप्राणायामा अप्युपपातकविशेषाभिप्राया एव । अथ पातकोपपातकवय॑मित्यादिनोक्ताः साशीतिशतप्राणायामा जातिभ्रंशकराद्यभिप्रायाः। अथ पातकपतनीयवर्ण्यमित्यादिनोक्ताः षष्ट्यधिकशतत्यप्राणायामाः गोवधाधुपपातकाभिप्रायाः । अथ पातकवयमित्यादिनोक्ताः पष्ट्यधिकद्विशतसहितद्विसहस्त्रसंख्याकाःप्राणायामाः अतिपातकानुपपातकाभिप्रायाः। अथ पातकेवित्यादिनोक्ता विंशत्यधिकशतत्रययुक्ताश्चतुःसहस्रप्राणायामा महापातकविषयाः । इदं चाभक्ष्यभोज्येत्यादिनोक्तं प्रायश्चित्तपञ्चकमत्यन्ताभ्यासविपयं, समुच्चितविषयं वा । यत्तु मनुना । (११२२५२)—'एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् । अवेत्युचं जपेदब्दं यत्किंचेदमितीति वा ॥' इत्यब्दं यावत्प्रत्यहमर्थान्तराविरुद्धेषु कालेषु 'अवतेहेळोवरुण' इत्यस्या ऋचो 'यत्किंचेदम्' इत्यस्याः, 'इति वा इतिमेमनः' इत्यस्याश्च जप उक्तः सोऽप्यभ्यासविषयः ॥ ३०५॥ १ अर्धमासद्वादशद्वादश ख. २ पातवय॑मित्यादि ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy