Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 501
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता। एवं प्रसङ्गेन स्त्रीषु विशेषमभिधाय प्रकृत एव चरितव्रतविधी विशेषमाह घटेऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम् । प्रदद्यात्प्रथमं गोभिः सत्कृतस्य हि सक्रिया ॥२९९ ॥ घटेऽपवर्जिते ह्रदादुद्धृत्य पूर्णे कुम्भेऽवनिनीतेऽसौ चरितव्रतः सपिण्डादिमध्यस्थो गोभ्यो यवसं दद्यात् । ताभिः प्रथमं सत्कृतस्य पूजितस्य पश्चाज्ज्ञातिभिः सक्रिया कार्या। गोभिश्च तस्य सत्कारस्तहत्तयवसभक्षणमेव । यदि गावस्तद्दत्तं यवसं न गृह्णीयुस्तर्हि पुनः प्रायश्चित्तमनुतिष्ठेत् । यदाह हारीतः-'स्वशिरसा यवसमादाय गोभ्यो दद्याद्यदि ताः प्रतिगृह्णीयुरथैनं प्रवर्तयेयुः' इतरथा नेत्यभिप्रेतम् ॥ २९९ ॥ महापातकादिपञ्चविधेऽपि दोषगणे प्रातिस्विकवतसंदोहमभिधायाधुना सकलवतसाधारणं धर्ममाह विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम् ।। यो दोषो यावत्कर्तृसंपाधस्ततोऽन्यैर्विख्यातो विज्ञातो दोषो यस्यासौ पर्षदुपदिष्टं व्रतं कुर्यात् । यद्यपि स्वयं सकलशास्त्रार्थविचारचतुरस्तथापि पर्षसमीपमुपगम्य तया सह विचार्य तदनुमतमेव कुर्यात् । तदुपगमने चाङ्गिरसा विशेष उक्त:--'कृते निःसंशये पापे न भुजीतानुपस्थितः । भुञ्जानो वर्धयेत्पापं यावन्नाख्याति पर्षदि ॥ सचैलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः। पर्षदानुमतस्तत्त्वं सर्व विख्यापयेन्नरः । व्रतमादाय भूयोपि तथा स्नात्वा व्रतं चरेत् ॥' इति ॥ विख्यापनं च पर्षदक्षिणादानानन्तरं कार्यम् । यथाह पराशरः-पापं विख्यापयेत्पापी दत्त्वा धेनुं तथा वृपम्' इति । एतच्चोपपातकविषयम् । महापातकादिष्वधिकं कल्प्यम् । यत्तुक्तम्-'तस्माद्विजः प्राप्तपापः सकृदाप्लुत्य वारिणि । विख्याप्य पापं पर्षयः किंचिहत्त्वा व्रतं चरेत् ॥' इति तत्प्रकीर्णकविषयम् । पर्षस्वरूपं च मनुना दर्शितम्–'विद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे पर्षदेषा दशावरा ॥' हैतुको मीमांसार्थादितत्वज्ञः । तर्की न्यायशास्त्रकुशलः । तथान्यदपि पर्षद्वयं तेनैव दर्शितम्-'ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च। अपरा पर्षद्विज्ञेया धर्मसंशयनिर्णये ॥' इति । तथा-'ऐकोऽपि वेदविद्धर्म यं व्यवस्येत्समाहितः । स ज्ञेयः परमो धर्मों नाज्ञानामुदितोऽयुतैः ॥' इति । आसां च पर्षदां संभवापेक्षया व्यवस्था महापातकाद्यपेक्षया वा ॥ यत्तु स्मृत्यन्तरेऽभिहितम्-'पातकेषु शतं पर्षसहस्रं महदादिषु । उपपापेषु पञ्चाशत्स्वल्पं स्वल्पे तथा भवेत् ॥' इति, तदपि महापातकादिदोषानुसारेण पर्षदो गुरुलघुभावप्रतिपादनपरं न पुनः संख्यानियमार्थम् । मन्वादिमहास्मृतिविरोधप्रसङ्गात् ॥ तथा देवलेन चान विशेषो दर्शितः १ विख्यातपापं वक्तृभ्य इति ङ. २ निरुक्तो ङ. ३ एकोऽपि धर्मविद्धर्ममिति पाठः. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554