________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता। एवं प्रसङ्गेन स्त्रीषु विशेषमभिधाय प्रकृत एव चरितव्रतविधी विशेषमाह
घटेऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम् ।
प्रदद्यात्प्रथमं गोभिः सत्कृतस्य हि सक्रिया ॥२९९ ॥ घटेऽपवर्जिते ह्रदादुद्धृत्य पूर्णे कुम्भेऽवनिनीतेऽसौ चरितव्रतः सपिण्डादिमध्यस्थो गोभ्यो यवसं दद्यात् । ताभिः प्रथमं सत्कृतस्य पूजितस्य पश्चाज्ज्ञातिभिः सक्रिया कार्या। गोभिश्च तस्य सत्कारस्तहत्तयवसभक्षणमेव । यदि गावस्तद्दत्तं यवसं न गृह्णीयुस्तर्हि पुनः प्रायश्चित्तमनुतिष्ठेत् । यदाह हारीतः-'स्वशिरसा यवसमादाय गोभ्यो दद्याद्यदि ताः प्रतिगृह्णीयुरथैनं प्रवर्तयेयुः' इतरथा नेत्यभिप्रेतम् ॥ २९९ ॥
महापातकादिपञ्चविधेऽपि दोषगणे प्रातिस्विकवतसंदोहमभिधायाधुना सकलवतसाधारणं धर्ममाह
विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम् ।। यो दोषो यावत्कर्तृसंपाधस्ततोऽन्यैर्विख्यातो विज्ञातो दोषो यस्यासौ पर्षदुपदिष्टं व्रतं कुर्यात् । यद्यपि स्वयं सकलशास्त्रार्थविचारचतुरस्तथापि पर्षसमीपमुपगम्य तया सह विचार्य तदनुमतमेव कुर्यात् । तदुपगमने चाङ्गिरसा विशेष उक्त:--'कृते निःसंशये पापे न भुजीतानुपस्थितः । भुञ्जानो वर्धयेत्पापं यावन्नाख्याति पर्षदि ॥ सचैलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः। पर्षदानुमतस्तत्त्वं सर्व विख्यापयेन्नरः । व्रतमादाय भूयोपि तथा स्नात्वा व्रतं चरेत् ॥' इति ॥ विख्यापनं च पर्षदक्षिणादानानन्तरं कार्यम् । यथाह पराशरः-पापं विख्यापयेत्पापी दत्त्वा धेनुं तथा वृपम्' इति । एतच्चोपपातकविषयम् । महापातकादिष्वधिकं कल्प्यम् । यत्तुक्तम्-'तस्माद्विजः प्राप्तपापः सकृदाप्लुत्य वारिणि । विख्याप्य पापं पर्षयः किंचिहत्त्वा व्रतं चरेत् ॥' इति तत्प्रकीर्णकविषयम् । पर्षस्वरूपं च मनुना दर्शितम्–'विद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे पर्षदेषा दशावरा ॥' हैतुको मीमांसार्थादितत्वज्ञः । तर्की न्यायशास्त्रकुशलः । तथान्यदपि पर्षद्वयं तेनैव दर्शितम्-'ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च। अपरा पर्षद्विज्ञेया धर्मसंशयनिर्णये ॥' इति । तथा-'ऐकोऽपि वेदविद्धर्म यं व्यवस्येत्समाहितः । स ज्ञेयः परमो धर्मों नाज्ञानामुदितोऽयुतैः ॥' इति । आसां च पर्षदां संभवापेक्षया व्यवस्था महापातकाद्यपेक्षया वा ॥ यत्तु स्मृत्यन्तरेऽभिहितम्-'पातकेषु शतं पर्षसहस्रं महदादिषु । उपपापेषु पञ्चाशत्स्वल्पं स्वल्पे तथा भवेत् ॥' इति, तदपि महापातकादिदोषानुसारेण पर्षदो गुरुलघुभावप्रतिपादनपरं न पुनः संख्यानियमार्थम् । मन्वादिमहास्मृतिविरोधप्रसङ्गात् ॥ तथा देवलेन चान विशेषो दर्शितः
१ विख्यातपापं वक्तृभ्य इति ङ. २ निरुक्तो ङ. ३ एकोऽपि धर्मविद्धर्ममिति पाठः.
For Private And Personal Use Only