________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
मिताक्षरासहिता ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ]
एवं सकलरहस्यसाधारणधर्ममभिधाय प्रकाशप्रायश्चित्तवद्रह्महत्यादिक्रमेणैव
रहस्यप्रायश्चित्तान्याह -
४७१
त्रिरात्रोपोषितो जल्वा ब्रह्महा लघमर्षणम् । अन्तर्जले विशुध्येत देवा गां च पयस्विनीम् ॥ ३०१ ॥
त्रिरात्रमुपोषितोऽन्तर्जलेऽघमर्षणेन महर्षिणा दृष्टं सूक्तं अघमर्षणं 'ऋतं च सत्यं च' इति तृचमानुष्टुभं भाववृत्तदेवताकं जहवा त्रिरात्रान्ते पयस्विनीं गां दत्त्वा ब्रह्महा विशुध्यति । जपश्चान्तर्जले निमग्नेन त्रिरावर्तनीयः । यथाह सुमन्तुः - 'देवद्विजगुरुहन्ताप्सु निमग्नोऽघमर्पणं सूक्तं त्रिरावर्तयेत् । मातरं भगिनीं गत्वा मातृष्वसारं स्पां सखीं वान्यद्वोऽगम्यागमनं कृत्वाऽघमर्षणमेवान्तर्जले त्रिरावर्त्य तदेतस्मात्पूतो भवति' इति । एतच्चाकामकारविषयम् । यत्तु मनुनोक्तम् (११।२४८ ) - ' सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश । अपि भ्रूणहणं मासात्पुनन्त्यहरहः कृताः ॥' इति, तदप्यस्मिन्नेव विषये गोदानाशक्तस्य वेदितव्यम् । यत्तु गौतमेन पत्रिंशद्रात्रव्रतमुक्त्वोक्तं ' तत एव ब्रह्महत्या सुरापानसुवर्णस्तेयगुरुतल्पेषु प्राणायामैः स्नातोऽघमर्षणं जपेत्' इति तदकामतः सकृद्वधविषयम् । यत्तु बौधायनेनोक्तम् । - ' ग्रामात्याचीं वोदीचीं eिaguests areः शुचिः शुचिवासा उदकान्ते स्थण्डिलमुपलिप्य सकृत्किन्नवासाः गोशकृत्पूतेन पाणिनादित्याभिमुखोऽघमर्षणं स्वाध्यायमधीयीत । प्रातः शतं मध्याह्ने शतमपराह्णे शतं परिमितं चोदितेषु नक्षत्रेषु प्रसृतियावकं प्राश्नीयात् । ज्ञानकृतेभ्योऽज्ञानकृतेभ्यश्चोपपातकेभ्यः सप्तरात्रात्प्रमुच्यते द्वादशरात्रान्महापातकेभ्यो ब्रह्महत्यासुरापानसुवर्णस्तेयानि वर्जयित्वा एकविंशतिरात्रेण तान्यपि तरती'ति तत्कामकारविषयम्, अकामतः श्रोत्रियाचार्यसवनस्थवधविषयं वा । यत्तु मनुनोक्तम् ( १२/२५८ ) -- ' अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥' इति, तत्कामतः श्रोत्रियादिवधविषयमितरत्र कामतोऽभ्यासविषयं वा । यत्तु बृहद्विष्णुनोक्तम् - 'ब्रह्महत्यां कृत्वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य प्रभूतेन्धनेनाग्निं प्रज्वाल्याघमर्पणेनाष्टसहस्रमाज्याहुतीर्जुहुयात्तत एतस्मात्पूतो भवति' इति, तन्निगुणवधविषयमनुग्राहक विषयं वा । यत्तु यमेनोक्तम्- 'यहं तूपवसे युक्तत्रिरह्नोऽभ्युपयन्नपः । मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाघमर्पणम् ॥' इति तद्गुणवतो हन्तुर्निर्गुणवधविषयं प्रयोजकानुमन्तृविषयं वा । यत्तु हारीतेनोक्तम् - 'महापातकातिपातकानुपातकोपपातकानामेकतममेव संनिपाते चाघमर्पणमेव त्रिर्जपेत्' इति तन्निमित्तकर्तृविषयम् । एवमन्यान्यपि स्मृतिवाक्यान्यन्विष्यैवमेव विषयेषु विभजनीयानि ग्रन्थगौरवभयान्न लिख्यन्ते । एतदेव व्रतजातं यागस्थ योषित्क्षत्रविदस्वात्रेय्यामाहिताग्निपल्यां गर्भिण्यामविज्ञाते च गर्भे व्यापादिते तुरीयांशन्यून मनुष्ठेयम् ॥ ३०१ ॥
S
१ गां दत्त्वा च पयः ङ. २ न्यद्वा गमनं ख.
३ कामतो वध ख. ४ वासाः सकृत् ख.
For Private And Personal Use Only