Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 493
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । ४६१ 'बलाद्दासीकृता ये तु म्लेच्छचण्डालदस्युभिः । अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ॥ उच्छिष्टमार्जनं चैव तेथोच्छिष्टस्य भोजनम् । खरोष्ट्रविवराहाणामामिषस्य च भक्षणम् ॥ तत्स्रीणां च तथा सङ्गस्ताभिश्च सह भोजनम् । मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम् ॥ चान्द्रायणं त्वाहिताग्नेः पराकस्त्वथवा भवेत् । चान्द्रायणं पराकं च चरेत्संवत्सरोषितः ॥ संवत्सरोषितः शूद्रो मासा यावकं पिबेत् । मासमात्रोषितः शूद्रः कृच्छ्रपादेन शुध्यति ॥ ऊर्ध्व संवत्सराकल्यं प्रायश्चित्तं द्विजोत्तमैः । संवत्सरैस्त्रिभिश्चैव तद्भावं स निगच्छति' इति ॥ आशौचिपरिगृहीतान्न भोजने तु च्छागलेय आह - 'अज्ञानाद्भुञ्जते विप्राः सूतके मृतके तथा ॥ प्राणायामशतं कृत्वा शुध्यन्ते शूद्रसूतके ॥ वैश्ये पष्टिर्भवेद्राज्ञ विंशतिर्ब्राह्मणे दश । एकाहं च त्र्यहं पञ्च सप्तरात्रमभोजनम् ॥ ततैः शुद्धिर्भवत्येषां पञ्चगव्यं पिबेत्ततः ॥' इति । ब्राह्मणादिक्रमेणैकाहभ्यहादयो योज्याः । इदमकामविषयम् ॥ कामतस्तु मार्कण्डेय आह - 'भुक्त्वा तु ब्राह्मणाशौचे चरेत्सान्तपनं द्विजः । भुक्त्वा तु क्षत्रियाशौचे तप्तकृच्छ्रो वि धीयते ॥ वैश्याशौचे तथा भुक्त्वा महासान्तपनं चरेत् । शूद्रस्यैव तथा भुक्त्वा त्रिमासान्व्रतमाचरेत् ॥' यत्तु शङ्खेनोक्तम्– 'शूद्रस्य सूतके भुक्त्वा षण्मासाव्रतमाचरेत् । वैश्यस्य तु तथा भुक्त्वा त्रीन्मासान्व्रतमाचरेत् ॥ क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतमाचरेत् । ब्राह्मणस्य तथाऽशौचे भुक्त्वा मासव्रती भवेत् ॥' इति । इदमभ्यासविषयम् । एतच्च प्रायश्चित्तमाशौचानन्तरं वेदितव्यम् । ब्राह्मणादीनामाशौचे यः सकृदेवान्नमश्नाति तस्य तावदाशौचं यावत् तेषामाशौ - चव्यपगमे तु प्रायश्चित्तं कुर्यात्' इति विष्णुस्मरणात् ॥ I अपुत्राद्यन्नभोजने तु लिखित आह- 'भुक्त्वा वार्धुषिकस्यान्नमव्रतस्यासु तस्य च । शूद्रस्य च तथा भुक्त्वा त्रिरात्रं स्यादभोजनम् ॥' तथा 'परपाकनिवृत्तस्य परपाकरतस्य च । अपचस्य तु भुक्त्वान्नं द्विजश्चान्द्रायणं चरेत् ॥' इति । एतच्चाभ्यासविषयम् ॥ परपाकेन निवृत्तादेर्लक्षणं च तेनैवोक्तम्- 'गृहीत्वाग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत् । परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः ॥ पञ्चयज्ञांस्तु यः कृत्वा परान्नादुपजीवति । सततं प्रातरुत्थाय परपाकरतस्तु सः ॥ गृहस्थधर्मवृत्तौ यो ददाति परिवर्जितः । ऋषिभिर्धर्मतत्त्वज्ञैरपचः संप्रकीर्तितः ॥' इति ॥ यत्तु ब्रह्मचार्याद्यन्नभोजने वृद्धयाज्ञवल्क्य आह - 'यतिश्च ब्रह्मचारी च पक्वान्नस्त्रामिनावुभौ । तयोरनं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥' इति ॥ यच्च पार्वश्राद्धकर्तुरनभोजने भरद्वाज आह- 'पक्षे वा यदि वा मासे यस्य नाश्नन्ति देवताः ॥ भुक्त्वा दुरात्मनस्तस्य द्विजश्चान्द्रायणं चरेत् ॥' इति तदुभयमध्यभ्यासविषयम् ॥ पूर्वपरिगणितातिरिक्ता ये निषिद्धाचरणशीलास्तदन्नभोजने तु —- 'निराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुक्त्वा द्विजः कुर्यादिनमेकमभोजनम् ॥' इति षटूत्रिंशन्मतोक्तं द्रष्टव्यम् । अत्रैव संवत्सराभ्या १ तथा तस्यैव भोजनं ङ. २ अज्ञानाद्भोजने ख. ३ ततः शुचिर्भवेद्विप्रः पञ्चगव्यं पिबेन्नरः इति ङ. ४ द्विजश्चान्द्रायणं चरेदिति ङ. ५ पञ्चयज्ञान्स्वयं कृत्वा परान्नमुपजीवति ङ. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554