Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 495
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । च्छब्दोच्चारणेन निर्भय विप्रं वा ज्यायांसं समं कनीयांसं वा सक्रोधं हुं तूष्णीमास्त्र, हुं मा बहुवादीः, इत्येवमाक्षिप्य जल्पवितण्डाभ्यां जयफलाभ्यां विप्रं निर्जित्य कण्ठे वाससा मृदुस्पर्शनापि बध्वा क्षिप्रं पादप्रणिपातादिना प्रसाद्य क्रोधं त्याजयित्वा दिनमुपवसेत् । अनश्नन्कृत्स्नं वासरं नयेत् ॥ यत्तु यमेनोक्तम्'वादेन ब्राह्मणं जित्वा प्रायश्चित्तविधित्सया। त्रिरात्रोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥' इति तदभ्यासविषयम् ॥ २९१ ॥ विप्रदण्डोद्यमे कृच्छ्रस्त्वतिकृच्छ्रो निपातने। कृच्छातिकृच्छ्रोऽसृक्पाते कुच्छ्रोऽभ्यन्तरशोणिते ॥२९२॥ विप्रजिघांसया दण्डाद्युद्यमे कृच्छ्रः शुद्धिहेतुः । निपातने ताडने अतिकृच्छ्रः । असृक्पाते रुधिरस्रावणे पुनः कृच्छ्रातिकृच्छ्रः । अभ्यन्तरशोणितेऽपि कृच्छ्रः शुद्धि हेतुः ॥ बृहस्पतिनाप्यत्र विशेष उक्त:--'काष्ठादिना ताडयित्वा त्वभेदे कृच्छ्रमाचरेत् । अस्थिभेदेऽतिकृच्छ्रः स्यात्पराकस्त्वङ्गकर्तने ॥' इति । पादप्रहारे तु यम आह-पादेन ब्राह्मणं स्पृष्ठा प्रायश्चित्तविधित्सया। दिवसोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥' इति ॥ मनुना त्वन्यानि प्रकीर्णकप्रायश्चित्तानि दर्शितानि (१११२०२)-'विनाद्भिरप्सु वाप्यातः शारीरं संनिषेव्य तु । सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति ॥' इति । विनाद्भिरित्यसंनिहितास्वपीत्यर्थः । शारीरं मूत्रपुरीषादि । इदमकामविषयम् । कामतस्तु-'आपद्गतो विना तोयं शारीरं यो निषेवते । एकाहं क्षपणं कृत्वा सैचैलो जलमाविशेत् ॥' इति यमोक्तं वेदितव्यम् ॥ यत्तु सुमन्तुवचनम्-'अपस्वग्नौ वा मेहतस्तप्तकृच्छ्रम्' इति तदनात विषयमभ्यासविषयं वा ॥ नित्यश्रीतादिकर्मलोपे तु मनुराह (११२०३)-'वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥' इति । श्रौतेषु दर्शपौर्णमासादिकर्मषु स्मातेषु चानित्यहोमादिपु प्रतिपदोक्तेष्ट्यादिप्रायश्चित्तैरुपवासस्य समुच्चयः । स्नातकत्रतानि च-'न जीर्णमलवद्वासा भवेच्च विभवे सति' इत्येवमादीनि प्रागुक्तानि । स्नातकव्रतमधिकृत्य ऋतुनाप्युक्तम्-'एतेषामाचाराणामेकैकस्य व्यतिक्रमे गायत्र्यष्टशतं जप्यं कृत्वा पूतो भवति' इति ॥ पञ्चमहायज्ञाकरणे तु बृहस्पतिराह–'अनिवर्त्य महायज्ञान्यो भुङ्क्ते प्रत्यहं गृही । अनातुरः सति धने कृच्छ्रार्धेन विशुध्यति ॥ आहिताग्निरुपस्थानं न कुर्याद्यस्तु पर्वणि । ऋतौ न गच्छेद्भायाँ वा सोऽपि कृच्छ्रार्धमाचरेत् ॥' इति ॥ द्वितीयादिभार्योपरमे तु देवल आह-'मृतां द्वितीयां यो भायाँ दहेद्वैतानिकाग्निभिः । जीवन्त्यां प्रथमायां तु सुरापानसमं हि तत् ॥' इति । स्वभार्याभिशंसने तु यम आह-'स्वभार्यां तु यदा क्रोधादगम्येति नरो वदेत् । प्राजापत्यं चरेद्विप्रः । क्षत्रियो दिवसानव ॥ षडानं तु चरेद्वैश्यस्त्रिरात्रं शूद्र आचरेत् ॥' इति ॥ १ 'कृच्छोऽल्पतरशोणिते' इति पाठान्तरेऽल्पतरशोणितेऽपि कृच्छ्रः शुद्धिहेतुरिति ज्ञेयम्. २ 'सचेल स्लानमाचरेत्' ङ. या० ४२ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554