Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 494
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६२ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः से पत्रिंशन्मत एवोक्तम्- 'उपपातकयुक्तस्य अब्दमेकं निरन्तरम् । अन्नं भुक्त्वा द्विजः कुर्यात्पराकं तु विशोधनम् ॥' इति । इदं चाभक्ष्यभक्षणप्रायश्चित्तकाण्ड गतमविशेषोदितव्रतकदम्बकं हि द्विजाग्र्यस्यैव । क्षत्रियादीनां तु पादपादहान्या भवति । 'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽधं पादएकस्तु शुद्वजातिषु शस्यते ॥' इति विष्णुस्मरणात् ॥ 1 इत्यभक्ष्यभक्षणप्रायश्चित्तप्रकरणम् ॥ निमित्तपरिगणनवेलायामुपपातकानन्तरं जातिभ्रंशकरादीनि परिगणितानि तत्र प्रायश्चित्तान्युच्यन्ते । तत्र मनुः ( ११।१२४ - १२५ ) - ( जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया । चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ संकरा - पात्रकृत्यासु मासं शोधनमैन्दवम् । मलिनीकरणीयेषु तप्तः स्याद्यावकख्यहम् ॥' इति । अन्यतममिति सर्वत्र संबध्यते । यमेनाप्यत्र विशेष उक्तः - 'संकरीकरणं कृत्वा मासमश्नाति यावकम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं समाचरेत् ॥ अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति ॥ शीतकृच्छ्रेण वा शुद्धिर्महासान्तपनेन वा । मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ॥' इति ॥ बृहस्पतिनापि जातिभ्रंशकरे विशेष उक्तः - 'ब्राह्मणस्य रुजः कृत्वा रासभादिप्रमापणम् । निन्दितेभ्यो धनादानं कृच्छ्रार्धं व्रतमाचरेत् ॥' इति । एतेषां च जाति अंशकरादिप्रायश्चित्तानां मन्वाद्युक्तानां जातिशक्त्याद्यपेक्षया विषयो विभजनीयः । एवं योगीन्द्रहृद्गतम भक्ष्यभक्षणादिप्रायश्चित्तं संक्षेपतो दर्शितम् ॥ २८९ ॥ अधुना प्रकृतमनुसरामः - 'महापातकमतिपातकमनुपातकमुपपातकं प्रकीर्णकमिति पञ्चविधं पापजातमुक्तम् । तत्र चतुर्विधप्रायश्चित्तमभिधाय क्रमप्राप्ते प्रकीर्णके प्रायश्चित्तमाह प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः । नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ २९० ॥ खरयुक्तं यानं खरयानम् । उष्ट्रयुक्तं यानमुष्ट्रयानं रथगत्र्यादि तेनाध्वगमनं कृत्वा दिगम्बरः arत्वाभ्यवहृत्य दिवा वासरे च निजाङ्गनासंभोगं कृत्वा च तडागतरङ्गिण्यादाववगाह्य कृतप्राणायामः शुध्यति । इदं च कामकारविषयम् । ( ११२०१ ) - ' उष्ट्रयानं समारुह्य खरयानं तु कामतः । सेवासा जलमालुत्य प्राणायामेन शुध्यति ॥' इति मनुस्मरणात् । अकामतः स्नानमात्रं कल्प्यम् । - साक्षात्खरारोहणे तु द्विगुणावृत्तिः कल्पनीया । तस्य गुरुत्वात् ॥ २९० ॥ गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः । बध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद्दिनम् ॥ २९९ ॥ किंच । गुरुं जनकादिकं त्वं कृत्य त्वमेवमात्थ त्वयैवं कृतमित्येकवचनान्तयुष्म१ स्नात्वा तु विप्रो दिग्वासा इति पाठः. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554