________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६२
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः
से पत्रिंशन्मत एवोक्तम्- 'उपपातकयुक्तस्य अब्दमेकं निरन्तरम् । अन्नं भुक्त्वा द्विजः कुर्यात्पराकं तु विशोधनम् ॥' इति । इदं चाभक्ष्यभक्षणप्रायश्चित्तकाण्ड गतमविशेषोदितव्रतकदम्बकं हि द्विजाग्र्यस्यैव । क्षत्रियादीनां तु पादपादहान्या भवति । 'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽधं पादएकस्तु शुद्वजातिषु शस्यते ॥' इति विष्णुस्मरणात् ॥
1
इत्यभक्ष्यभक्षणप्रायश्चित्तप्रकरणम् ॥
निमित्तपरिगणनवेलायामुपपातकानन्तरं जातिभ्रंशकरादीनि परिगणितानि तत्र प्रायश्चित्तान्युच्यन्ते । तत्र मनुः ( ११।१२४ - १२५ ) - ( जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया । चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ संकरा - पात्रकृत्यासु मासं शोधनमैन्दवम् । मलिनीकरणीयेषु तप्तः स्याद्यावकख्यहम् ॥' इति । अन्यतममिति सर्वत्र संबध्यते । यमेनाप्यत्र विशेष उक्तः - 'संकरीकरणं कृत्वा मासमश्नाति यावकम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं समाचरेत् ॥ अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति ॥ शीतकृच्छ्रेण वा शुद्धिर्महासान्तपनेन वा । मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ॥' इति ॥ बृहस्पतिनापि जातिभ्रंशकरे विशेष उक्तः - 'ब्राह्मणस्य रुजः कृत्वा रासभादिप्रमापणम् । निन्दितेभ्यो धनादानं कृच्छ्रार्धं व्रतमाचरेत् ॥' इति । एतेषां च जाति अंशकरादिप्रायश्चित्तानां मन्वाद्युक्तानां जातिशक्त्याद्यपेक्षया विषयो विभजनीयः । एवं योगीन्द्रहृद्गतम भक्ष्यभक्षणादिप्रायश्चित्तं संक्षेपतो दर्शितम् ॥ २८९ ॥
अधुना प्रकृतमनुसरामः - 'महापातकमतिपातकमनुपातकमुपपातकं प्रकीर्णकमिति पञ्चविधं पापजातमुक्तम् । तत्र चतुर्विधप्रायश्चित्तमभिधाय क्रमप्राप्ते प्रकीर्णके प्रायश्चित्तमाह
प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः ।
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ २९० ॥
खरयुक्तं यानं खरयानम् । उष्ट्रयुक्तं यानमुष्ट्रयानं रथगत्र्यादि तेनाध्वगमनं कृत्वा दिगम्बरः arत्वाभ्यवहृत्य दिवा वासरे च निजाङ्गनासंभोगं कृत्वा च तडागतरङ्गिण्यादाववगाह्य कृतप्राणायामः शुध्यति । इदं च कामकारविषयम् । ( ११२०१ ) - ' उष्ट्रयानं समारुह्य खरयानं तु कामतः । सेवासा जलमालुत्य प्राणायामेन शुध्यति ॥' इति मनुस्मरणात् । अकामतः स्नानमात्रं कल्प्यम् । - साक्षात्खरारोहणे तु द्विगुणावृत्तिः कल्पनीया । तस्य गुरुत्वात् ॥ २९० ॥
गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः ।
बध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद्दिनम् ॥ २९९ ॥ किंच । गुरुं जनकादिकं त्वं कृत्य त्वमेवमात्थ त्वयैवं कृतमित्येकवचनान्तयुष्म१ स्नात्वा तु विप्रो दिग्वासा इति पाठः.
For Private And Personal Use Only