________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४६१
'बलाद्दासीकृता ये तु म्लेच्छचण्डालदस्युभिः । अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ॥ उच्छिष्टमार्जनं चैव तेथोच्छिष्टस्य भोजनम् । खरोष्ट्रविवराहाणामामिषस्य च भक्षणम् ॥ तत्स्रीणां च तथा सङ्गस्ताभिश्च सह भोजनम् । मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम् ॥ चान्द्रायणं त्वाहिताग्नेः पराकस्त्वथवा भवेत् । चान्द्रायणं पराकं च चरेत्संवत्सरोषितः ॥ संवत्सरोषितः शूद्रो मासा यावकं पिबेत् । मासमात्रोषितः शूद्रः कृच्छ्रपादेन शुध्यति ॥ ऊर्ध्व संवत्सराकल्यं प्रायश्चित्तं द्विजोत्तमैः । संवत्सरैस्त्रिभिश्चैव तद्भावं स निगच्छति' इति ॥
आशौचिपरिगृहीतान्न भोजने तु च्छागलेय आह - 'अज्ञानाद्भुञ्जते विप्राः सूतके मृतके तथा ॥ प्राणायामशतं कृत्वा शुध्यन्ते शूद्रसूतके ॥ वैश्ये पष्टिर्भवेद्राज्ञ विंशतिर्ब्राह्मणे दश । एकाहं च त्र्यहं पञ्च सप्तरात्रमभोजनम् ॥ ततैः शुद्धिर्भवत्येषां पञ्चगव्यं पिबेत्ततः ॥' इति । ब्राह्मणादिक्रमेणैकाहभ्यहादयो योज्याः । इदमकामविषयम् ॥ कामतस्तु मार्कण्डेय आह - 'भुक्त्वा तु ब्राह्मणाशौचे चरेत्सान्तपनं द्विजः । भुक्त्वा तु क्षत्रियाशौचे तप्तकृच्छ्रो वि धीयते ॥ वैश्याशौचे तथा भुक्त्वा महासान्तपनं चरेत् । शूद्रस्यैव तथा भुक्त्वा त्रिमासान्व्रतमाचरेत् ॥' यत्तु शङ्खेनोक्तम्– 'शूद्रस्य सूतके भुक्त्वा षण्मासाव्रतमाचरेत् । वैश्यस्य तु तथा भुक्त्वा त्रीन्मासान्व्रतमाचरेत् ॥ क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतमाचरेत् । ब्राह्मणस्य तथाऽशौचे भुक्त्वा मासव्रती भवेत् ॥' इति । इदमभ्यासविषयम् । एतच्च प्रायश्चित्तमाशौचानन्तरं वेदितव्यम् । ब्राह्मणादीनामाशौचे यः सकृदेवान्नमश्नाति तस्य तावदाशौचं यावत् तेषामाशौ - चव्यपगमे तु प्रायश्चित्तं कुर्यात्' इति विष्णुस्मरणात् ॥
I
अपुत्राद्यन्नभोजने तु लिखित आह- 'भुक्त्वा वार्धुषिकस्यान्नमव्रतस्यासु तस्य च । शूद्रस्य च तथा भुक्त्वा त्रिरात्रं स्यादभोजनम् ॥' तथा 'परपाकनिवृत्तस्य परपाकरतस्य च । अपचस्य तु भुक्त्वान्नं द्विजश्चान्द्रायणं चरेत् ॥' इति । एतच्चाभ्यासविषयम् ॥ परपाकेन निवृत्तादेर्लक्षणं च तेनैवोक्तम्- 'गृहीत्वाग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत् । परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः ॥ पञ्चयज्ञांस्तु यः कृत्वा परान्नादुपजीवति । सततं प्रातरुत्थाय परपाकरतस्तु सः ॥ गृहस्थधर्मवृत्तौ यो ददाति परिवर्जितः । ऋषिभिर्धर्मतत्त्वज्ञैरपचः संप्रकीर्तितः ॥' इति ॥ यत्तु ब्रह्मचार्याद्यन्नभोजने वृद्धयाज्ञवल्क्य आह - 'यतिश्च ब्रह्मचारी च पक्वान्नस्त्रामिनावुभौ । तयोरनं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥' इति ॥ यच्च पार्वश्राद्धकर्तुरनभोजने भरद्वाज आह- 'पक्षे वा यदि वा मासे यस्य नाश्नन्ति देवताः ॥ भुक्त्वा दुरात्मनस्तस्य द्विजश्चान्द्रायणं चरेत् ॥' इति तदुभयमध्यभ्यासविषयम् ॥ पूर्वपरिगणितातिरिक्ता ये निषिद्धाचरणशीलास्तदन्नभोजने तु —- 'निराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुक्त्वा द्विजः कुर्यादिनमेकमभोजनम् ॥' इति षटूत्रिंशन्मतोक्तं द्रष्टव्यम् । अत्रैव संवत्सराभ्या
१ तथा तस्यैव भोजनं ङ. २ अज्ञानाद्भोजने ख. ३ ततः शुचिर्भवेद्विप्रः पञ्चगव्यं पिबेन्नरः इति ङ. ४ द्विजश्चान्द्रायणं चरेदिति ङ. ५ पञ्चयज्ञान्स्वयं कृत्वा परान्नमुपजीवति ङ.
For Private And Personal Use Only