Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४५९ गव्वेन शुध्यति' इति ऋतूक्तं विज्ञेयम् । धमनदुष्टेऽपि-आसनारूढपादो वा वस्त्रार्धप्रावृतोऽपि वा मुखेन धमितं भुक्त्वा कृच्छ्रे सान्तपनं चरेत् ॥' इति तेनैवोक्तम् । पित्राघुद्देशेन त्यक्तामभोजने तु 'भुङ्क्ते चेत्पावर्णश्राद्धे प्राणायामान्षडा. चरेत् । उपवासस्निमासादिवत्सरान्तं प्रकीर्तितः॥ प्राणायामत्रयं वृद्धावहोरात्रं सपिण्डने । असरूपे स्मृतं नक्तं व्रतपारणके तथा ॥ द्विगुणं क्षत्रियस्यैतत्रिगुणं वैश्यभोजने। साक्षाच्चतुर्गुणं ह्येतत्स्मृतं शूद्रस्य भोजने ॥ अतिथौ तिष्ठति द्वारि ह्यपः प्राश्नन्ति ये द्विजाः । रुधिरं तद्भवेद्वारि भुक्त्वा चान्द्रायणं चरेत् ॥' इति भारद्वाजोक्तमवगन्तव्यम्। हारीतेनाप्युक्तम्-'एकादशाहे भुक्त्वान्नं भुक्त्वा संचयने तथा । उपोष्य विधिवत्स्नात्वा कूष्माण्डैर्जुहुयावृतम् ॥' इति । विष्णुनाप्युक्तम्-'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके । त्रैपक्षिके तदर्धे तु पञ्चगव्यं द्विमासिके ॥' इति । इदं चापद्विषयम् । अनापदि तु-'चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके । एकाहस्तु पुराणेषु प्राजापत्यं विधीयते ॥' इति हारीतोक्तं द्रष्टव्यम् । प्राजापत्यं तु मिश्रके इत्येतदाद्यमासिकविषयं द्रष्टव्यम् । द्वितीयादिषु तु-'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके । त्रैपक्षिके तदर्ध स्थात्पादो द्वैमासिके तथा । पादोनकृच्छ्रमुद्दिष्टं षण्मासे च तथाब्दिके । त्रिरात्रं चान्यमासेषु प्रत्यहं चेदहः स्मृतम् ॥' इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् ॥ क्षत्रियादिश्राद्धभोजने त्वनापदि तत्रैव विशेष उक्तः-'चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । त्रैपक्षिके सान्तपनं कृच्छ्रो मासद्वये स्मृतः॥ क्षत्रियस्य नवश्राद्धे व्रतमेतदुदाहृतम् । वैश्यस्यार्धाधिकं प्रोक्तं क्षत्रियात्तु मनीषिभिः ॥ शूद्रस्य तु नवश्राद्ध चरेच्चान्द्रायणद्वयम् । सार्धे चान्द्रायणं मासे त्रिपक्षे स्वैन्दवं स्मृतम् ॥ मासद्वये पराकः स्यादूर्व सान्तपनं स्मृतम् ॥' इति । यत्तु शङ्खवचनम्-'चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । पक्षत्रयेऽतिकृच्छ्रः स्यास्पण्मासे कृच्छ्र एव तु ॥ आब्दिके पादकृच्छ्रः स्यादेकाहः पुनराब्दिके । अतअर्ध्वं न दोषः स्याच्छङ्घस्य वचनं यथा ॥' इति, तत्सदिहतविषयम् । -'ये स्तेनाः पतिताः क्लीबा' इत्याद्यपालेयविषयं वा ॥--'चण्डालादुदकात्सद्रिाह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥ पतनानाशकैश्चैव विषोद्वन्धनकैस्तथा । भुक्त्वैषां पोडशश्राद्धे कुर्यादिन्दुव्रतं द्विजः ॥' इति । तथा'अपाझेयान्यदुद्दिश्य श्राद्धमेकादशेऽहनि । ब्राह्मणस्तत्र भुक्त्वानं शिशुचान्द्रायणं चरेत् ॥' इति ।-'आमश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुध्यति । संकल्पिते तथा भुक्त्वा त्रिरात्रं क्षपणं भवेत् ॥' इति भरद्वाजेन गुरुप्रायश्चित्ताभिधानात् ॥
ब्रह्मचारिणस्तु बृहद्यमो विशेषमाह-'मासिकादिषु योऽश्नीयादसमासवतो द्विजः । त्रिरात्रमुपवासोऽस्य प्रायश्चित्तं विधीयते ॥ प्राणायामत्रयं कृत्वा घृतं प्राश्य विशुध्यति ॥' इति । इदमज्ञानविषयम् । कामतोऽपि स एवाह'मधु मांसं तु योऽश्नीयाच्छाद्धे सूतक एव वा । प्राजापत्यं चरेत्कृच्छ्रे व्रतशेष
१ मासिके ङ. २ प्रायश्चित्तं ङ. ३ द्विरात्रमिति पाठान्तरम्.
For Private And Personal Use Only

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554