Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 490
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५८ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः दिन्दोः प्रथमादधियामतः । भुञ्जीतावर्तनात्पूर्वे प्रथमे प्रथमादधः ॥' तथा*अपराह्णे न मध्याह्ने सायाह्ने न तु सङ्गवे । भुञ्जीत सङ्गवे चेत्स्यान्न पूर्वं भोजनक्रिया ॥' | इति । यच्च मनुनोक्तम्- 'नाश्नीयात्संधिवेलायां नातिप्रगे नातिसायमित्येवमादि' । यच्च वृहच्छातातपेनोक्तम्- 'धाना दधि च सक्तूंश्च श्रीकामो वर्जयेन्निशि । भोजनं तिलसंबद्धं स्नानं चैव विचक्षणः ॥' इत्येवमादिष्वनादिष्टप्रायश्चित्तेषु - 'प्राणायामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥' इति योगीश्वरोक्तं प्राणायामशतं द्रष्टव्यम् ॥ अकामतस्तु 'शेषेषूपवसेदहः' इति मनुक्तोपवासो द्रष्टव्यः ॥ अथ गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् । तत्र मनुः ( ११।१५३ ) - 'शुक्तानि च कषायांश्च पीत्वाऽमेध्यान्यपि द्विजः । तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ॥' इति । अत्राकामतः 'शेषेषूपवसेदहः' इत्युपवासो द्रष्टव्यः । कामतस्तु'केवलानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपकं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥' इति शङ्खोक्तं द्रष्टव्यम् । एतचामलकादिफलयुक्तकाञ्जिकादिव्यतिरेकेण द्रष्टव्यम् | 'कुण्डिका सफला येषु गृहेषु स्थापिता भवेत् । तस्यास्तु काञ्जिका ग्राह्या नेतरस्याः कदाचन ॥' इति स्मरणात् ॥ उद्धृतस्नेहादिषु तु 'उद्धृतस्नेह विलयन पिण्याकमथितप्रभृतीनि चात्तवीर्याणि नाश्नीयात्' इत्युक्त्वा 'प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च' इति गौतमोक्तं द्रष्टव्यम् । विलयनं घृतादिमलम् । अनाहुताद्यन्नभोजने तु लिखित आह- 'यस्य चानौ न क्रियते यस्य चाग्रं न दीयते । न तद्भोज्यं द्विजातीनां भुक्त्वा चोपवसेदहः ॥ वृथा कृसरसंयावपायसापूपशष्कुलीः । आहिताग्निद्वजो भुक्त्वा प्राजापत्यं समाचरेत् ॥ * इति ॥ अनाहिताग्नेस्तु 'शेषेषूपवसेदहः' इत्युपवासो द्रष्टव्यः ॥ मिन्नभाजनादिषु तु भोजने संवर्तेनोक्तम्- 'शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्नभाजने । अहोरात्रोषितो भुक्त्वा पञ्चगव्येन शुध्यति ॥ इति ॥ तथा स्मृत्यन्तरेऽप्युक्तम्- 'वटाकश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः । कोविदारकदम्बेषु भुक्त्वा चान्द्रायणं चरेत् ॥' इति । तथा-- पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् । वानप्रस्थो यतिश्चैव लभते चान्द्रिकं फलम् ॥' इति ॥ 1 अथ हस्तदानादिक्रियादुष्टशभोज्यभक्षणे प्रायश्चित्तम् । तत्र पराशरः - 'माक्षिकं फौणितं शाकं गोरसं लवणं घृतम् । हस्तदत्तानि भुक्त्वा तु दिनमेकमभोजनम् ॥' इति । कामतस्तु — 'हस्तदत्तभोजने अब्राह्मणसमीपे भोजने दुष्टपतिभोजने पङ्कयग्रतो भोजनेऽभ्यक्तमूत्रपुरीषकरणे मृतसूतकशूद्रान्नभोजने शूद्वैः सह स्वप्ने त्रिरात्रमभोजनम्' इति हारीतोक्तं विज्ञेयम् । पर्यायान्नदानदुष्टे तु- 'ब्राह्मणान्नं ददच्छूद्रः शूद्रानं ब्राह्मणो ददत् । द्वयमेतदभोज्यं स्याद्भुक्त्वा तूपवसेदहः ॥' इति वृद्धयाज्ञावल्क्योक्तमवगन्तव्यम् । शूद्रहस्तेन भोजने तु - 'शूद्रहस्तेन यो भुङ्क्ते पानीयं वा पिबेत्क्वचित् । अहोरात्रोषितो भूत्वा पञ्च १ क्षिपते ख. २ चानं ख. ३ दुष्टान्न भोजने ख. ४ फाणितं इक्षुरसविकारः काकवीति लोके प्रसिद्धम् . For Private And Personal Use Only

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554