________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५८
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
दिन्दोः प्रथमादधियामतः । भुञ्जीतावर्तनात्पूर्वे प्रथमे प्रथमादधः ॥' तथा*अपराह्णे न मध्याह्ने सायाह्ने न तु सङ्गवे । भुञ्जीत सङ्गवे चेत्स्यान्न पूर्वं भोजनक्रिया ॥' | इति । यच्च मनुनोक्तम्- 'नाश्नीयात्संधिवेलायां नातिप्रगे नातिसायमित्येवमादि' । यच्च वृहच्छातातपेनोक्तम्- 'धाना दधि च सक्तूंश्च श्रीकामो वर्जयेन्निशि । भोजनं तिलसंबद्धं स्नानं चैव विचक्षणः ॥' इत्येवमादिष्वनादिष्टप्रायश्चित्तेषु - 'प्राणायामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥' इति योगीश्वरोक्तं प्राणायामशतं द्रष्टव्यम् ॥ अकामतस्तु 'शेषेषूपवसेदहः' इति मनुक्तोपवासो द्रष्टव्यः ॥
अथ गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् । तत्र मनुः ( ११।१५३ ) - 'शुक्तानि च कषायांश्च पीत्वाऽमेध्यान्यपि द्विजः । तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ॥' इति । अत्राकामतः 'शेषेषूपवसेदहः' इत्युपवासो द्रष्टव्यः । कामतस्तु'केवलानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपकं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥' इति शङ्खोक्तं द्रष्टव्यम् । एतचामलकादिफलयुक्तकाञ्जिकादिव्यतिरेकेण द्रष्टव्यम् | 'कुण्डिका सफला येषु गृहेषु स्थापिता भवेत् । तस्यास्तु काञ्जिका ग्राह्या नेतरस्याः कदाचन ॥' इति स्मरणात् ॥ उद्धृतस्नेहादिषु तु 'उद्धृतस्नेह विलयन पिण्याकमथितप्रभृतीनि चात्तवीर्याणि नाश्नीयात्' इत्युक्त्वा 'प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च' इति गौतमोक्तं द्रष्टव्यम् । विलयनं घृतादिमलम् । अनाहुताद्यन्नभोजने तु लिखित आह- 'यस्य चानौ न क्रियते यस्य चाग्रं न दीयते । न तद्भोज्यं द्विजातीनां भुक्त्वा चोपवसेदहः ॥ वृथा कृसरसंयावपायसापूपशष्कुलीः । आहिताग्निद्वजो भुक्त्वा प्राजापत्यं समाचरेत् ॥ * इति ॥ अनाहिताग्नेस्तु 'शेषेषूपवसेदहः' इत्युपवासो द्रष्टव्यः ॥ मिन्नभाजनादिषु तु भोजने संवर्तेनोक्तम्- 'शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्नभाजने । अहोरात्रोषितो भुक्त्वा पञ्चगव्येन शुध्यति ॥ इति ॥ तथा स्मृत्यन्तरेऽप्युक्तम्- 'वटाकश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः । कोविदारकदम्बेषु भुक्त्वा चान्द्रायणं चरेत् ॥' इति । तथा-- पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् । वानप्रस्थो यतिश्चैव लभते चान्द्रिकं फलम् ॥' इति ॥
1
अथ हस्तदानादिक्रियादुष्टशभोज्यभक्षणे प्रायश्चित्तम् । तत्र पराशरः - 'माक्षिकं फौणितं शाकं गोरसं लवणं घृतम् । हस्तदत्तानि भुक्त्वा तु दिनमेकमभोजनम् ॥' इति । कामतस्तु — 'हस्तदत्तभोजने अब्राह्मणसमीपे भोजने दुष्टपतिभोजने पङ्कयग्रतो भोजनेऽभ्यक्तमूत्रपुरीषकरणे मृतसूतकशूद्रान्नभोजने शूद्वैः सह स्वप्ने त्रिरात्रमभोजनम्' इति हारीतोक्तं विज्ञेयम् । पर्यायान्नदानदुष्टे तु- 'ब्राह्मणान्नं ददच्छूद्रः शूद्रानं ब्राह्मणो ददत् । द्वयमेतदभोज्यं स्याद्भुक्त्वा तूपवसेदहः ॥' इति वृद्धयाज्ञावल्क्योक्तमवगन्तव्यम् । शूद्रहस्तेन भोजने तु - 'शूद्रहस्तेन यो भुङ्क्ते पानीयं वा पिबेत्क्वचित् । अहोरात्रोषितो भूत्वा पञ्च
१ क्षिपते ख. २ चानं ख. ३ दुष्टान्न भोजने ख. ४ फाणितं इक्षुरसविकारः काकवीति लोके प्रसिद्धम् .
For Private And Personal Use Only