Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 488
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५६ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः दूषितम् । कुशोदुम्बरबिल्वाद्यैः पनसाम्बुजपत्रकैः । शङ्खपुष्पीसुवर्चादिक्वार्थ पीत्वा विशुध्यति ॥' इति यद्विष्णुनोक्तं तदशक्तविषयं रजकादिस्पृष्टविषयं वा । शूद्राद्युपहते तु हारीतोक्तं विज्ञेयम्-'शूद्रेणोपहतं भोज्यं कीटवाऽमेध्य. सेविमिः । भुनानेषु वा यत्र शूद्र उपस्पृशेदनहत्वास पनौ तु भुञ्जानेषु वा यत्रोत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा कुत्सित्वा वा यत्रान्नं दद्युस्तन प्रायश्चित्तमहोरात्रम्' इति । उच्छिष्टपतिभोजनेऽप्येतदेव-'यस्तु भुले द्विजः पङ्गयामुच्छिटायां कदाचन । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥' इति ऋतुस्मरणात् । वामकरनिर्मुक्तान्नभोजने तु-'समुत्थितस्तु यो भुते यो भुङ्क्ते मुक्तभाजने । एवं वैवस्वतः प्राह भुक्त्वा सान्तपनं चरेत् ॥' इति षत्रिंशन्मतोक्तं वेदितव्यम् ॥ तथा पराशरेणाप्यत्रोक्तम्-'एकपङ्कयुपविष्टानां विप्राणां सह भोजने । योकोऽपि त्यजेत्पात्रं शेषमन्नं न भोजयेत् ॥ मोहाद्भुञ्जीत यस्तत्र पकथामुच्छिष्टभोजनः । प्रायश्चित्तं चरेद्विप्रः कृच्छ्रे सान्तपनं तथा ॥' इति ॥ शवादिसंपृक्तकूपाधुदकपाने तु विष्णुराह–'मृतपञ्चनखात्कृपादत्यन्तोपहता. द्वोदकं पीत्वा ब्राह्मणस्यहमुपवसेत् ब्यहं राजन्य एकाहं वैश्यः शूद्रो नक्तं सर्वे चान्ते पञ्चगव्यं पिबेयुः' इति । अत्यन्तोपहताद्वेति मूत्रपुरीषादिभिर्वेत्यभिप्रेतम् । यदा तु तत्रैव शवमुच्छू तयोद्भिन्नं भवति तदा हारितो विशेषमाह'क्लिन्ने भिन्ने शवे तोयं तत्रस्थं यदि चेत्पिबेत् । शुध्यै चान्द्रायणं कुर्यात्तप्तकच्छ्रमथापि वा ॥ यदि कश्चित्ततः सायात्प्रमादेन द्विजोत्तमः । जपंस्त्रिषवणस्नायी अहोरात्रेण शुध्यति ॥' इति । इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजलपानविषयम् । अकामतस्तु पात्रम्-'क्लिन्नं भिन्नं शवं चैव कूपस्थं यदि दृश्यते । पयः पिबेत्रिरात्रेण मानुषे द्विगुणं स्मृतम् ॥' इति देवलस्मरणात् । यदा चाण्डालकूपादिगतं जलं पिबति तदापस्तम्वोक्तं द्रष्टव्यम् --'चाण्डाल. कूपभाण्डस्थं नरः कामाजलं पिबेत् । प्रायश्चित्तं कथं तत्र वर्णे वर्णे विनिर्दिशेत् ॥ चरेत्सान्तपनं विप्रः प्राजापत्यं च भूमिपः । तदर्धे तु चरेद्वैश्यः शूद्धे पादं विनिर्दिशेत् ॥' इति । इदं च कामकारविषयम् । अकामतस्तु-'चाण्डाल. लूपभाण्डस्थमज्ञानादुदकं पिबेत् । स तु ज्यहेण शुध्येत शूद्रस्त्वेकेन शुद्ध्यति ॥' इति देवलोक्तं द्रष्टव्यम् ॥ चाण्डालादिसंबद्धाल्पजलाशयेष्वपि कूपवच्छुद्धिः -'जलाशयेष्वथाल्पेषु स्थावरेषु महीतले । कूपवत्कथिता शुद्धिर्महत्सु तु न दूषणम् ॥' इति विष्णुस्मरणात् । पुष्करिण्यादिषु पुनः--'म्लेच्छादीनां जलं पीत्वा पुष्करिण्यां हृदेऽपि वा । जानुदघ्नं शुचि ज्ञेयमधस्तादशुचि स्मृतम् ॥ तत्तोयं यः पिबे द्विप्रः कामतोऽकामतोऽपि वा । अकामान्नक्तभोजी स्यादहोरात्रं तु कामतः ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् ॥ रजकादिभाण्डगततोये तु-'भा. ण्डस्थमन्त्यजानां तु जलं दधि पयः पिबेत् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः ॥ ब्रह्मकूर्चीपवासेन द्विजातीनां तु निष्कृतिः ॥ शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥' इति पराशरोक्तं वेदितव्यम् । कामतस्तु द्विगुणम् १ द्रष्टव्यं ङ. २ संस्पृष्ट ङ. ३ भिर्वेत्यभिहितं ख. ४ उच्छूनतया भिन्नं ख. ५ जायते ख. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554