Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
४५७ - 'अन्त्यजैः खानिताः कृपास्तडागा वाप्य एव वा । एषु स्नात्वा च पीत्वा च प्राजापत्येन शुध्यति ॥' इति आपस्तम्बोक्तमभ्यासविषयं वेदितव्यम् n यत्त्वापस्तम्बेन चण्डालादितडागकूपादिजलपाने पञ्चगव्यमानं भक्ष्यमुक्तम् -'प्रपास्वरण्ये घटके च सारे द्रोण्यां जलं कोशविनिर्गतं च । श्वपाकचण्डालपरिग्रहेषु पीत्वा जलं पञ्चगव्येन शुध्येत् ॥' इति, तदशक्तविषयम् । 'प्रपांगतो विना तोयं शरीरं यो निषिञ्चति । एकाहक्षपणं कृत्वा सचैलं स्नानमाचरेत् ॥ सुराघटप्रपातोये पीत्वा नाव्यं जलं तथा । अहोरात्रोषितो भूत्वा पञ्चगव्यं जलं पिबेत् ॥' इति ॥
अथ भावदुष्टभक्षणे प्रायश्चित्तम्-'भावदुष्टं च यद्वर्णत आकारतो वा विसदृशतया जुगुप्सितशारीरमलादिवासनां जनयति तदुच्यते । अरिप्रयुक्तगरलादिशङ्कायां वा । तत्र च पराशरः-'वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते । भुक्त्वान्नं ब्राह्मणः पश्चात्रिरात्रेण विशुध्यति ॥' इति । एतत्कामकारविपयम् । यत्तु गौतमेन भावदुष्टं केवलमित्यादि प्राक्पञ्चनखेभ्यः पठित्वा प्रायश्चित्तमुक्तम्-'प्राक् पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च' इति, तदकामविषयम् ॥ शङ्कायां तु-'शङ्कास्थाने समुत्पन्ने अभोज्याभक्ष्यसंज्ञितम् । आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥ अक्षारलवणां रूक्षां पिबेद्राह्मीं सुर्वचलाम् । त्रिरात्रं शङ्खपुष्पी वा ब्राह्मणः पयसा सह ॥ पलाश बिल्वपत्राणि कुशान्पामुदुम्बरम् । अपः पिबेक्वाथयित्वा विरात्रेण विशुध्यति ॥' इति वसिष्ठोक्तं द्रष्टव्यम् । मनुनाप्यभोज्यभोजनशङ्कायामुक्तम् (५।२१)-'संवत्सरस्यैकमपि चरेत्कृच्छ्र द्विजोत्तमः । अज्ञातभुक्तशुध्यर्थं ज्ञातस्य तु विशेषतः ॥' इति ॥
अथ कालदुष्टभक्षणे प्रायश्चित्तम्-'कालदुष्टं च पर्युषितानिर्दशगोक्षीरादि । तत्र चाकामतः 'शेषेपूपवसेदहः' इति मनूक्तं वेदितव्यम् । कामतस्तु - 'केवलानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपक्कं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥' इति शङ्खोक्तं वेदितव्यम् । केवलान्यस्नेहोक्तानि । अनिदशगोक्षीरादिपु प्रायश्चित्तं प्राक् प्रदर्शितम् । नवोदकस्य पाने तु पञ्चगव्यप्राशनम्-'शृङ्गास्थिदन्तजैः पात्रैः शङ्खशुक्तिकपर्दकैः । पीत्वा नवोदकं चैव पञ्चगव्येन शुध्यति ॥' इति बृहद्याज्ञवल्क्यस्मरणात् ॥ कामतस्तूपवासः कर्तव्यः-'काले नवोदकं शुद्धं न पिबेच्च व्यहं हि तत् । अकाले तु दशाहं स्यास्पीत्वा नाद्यादहर्निशम् ॥' इति स्मृत्यन्तरदर्शनात् । ग्रहणकालभोजने तु चान्द्रायणम्-'नवश्राद्धग्रामयाजकानसग्रहभोजने । नारीणां प्रथमे गर्भ भुक्त्वा चान्द्रायणं चरेत् ॥ इति शातातपस्मरणात् ॥ यदा तु सग्रहादन्यत्र निषिद्धकाले भुङ्क्ते तदाह मार्कण्डेयः-'चन्द्रस्य यदि वा भानोर्यस्मिन्नहनि भार्गव । ग्रहणं तु भवेत्तस्मिन्न पूर्व भोजनक्रियाम् ॥ नाचरेत्सग्रहे चैव तथैवास्तमुपागते । यावत्स्यान्नोदयस्तस्य नाश्नीयात्तावदेव तु ॥' तथा-'ग्रहणं तु भवे
१ कोशविनिःसृतं वा ङ.
For Private And Personal Use Only

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554