Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 473
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । ४४१ पुनः सेवेत मैथुनम् । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः॥' इति। तथाच प. राशरः-'यःप्रत्यवसितो विप्रःप्रव्रज्यातो विनिर्गतः। अनाशकनिवृत्तश्च गार्हस्थ्यं चेच्चिकीर्षति ॥ स चरेत्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च । जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिमाप्नुयात् ॥' इति, तत्र ब्राह्मणस्य पाण्मासिकः कृच्छ्रः पुनः संन्याससंस्कारश्च । क्षत्रियस्य चान्द्रायणत्रयम् । वैश्यस्य कृच्छ्रत्रयमिति व्यवस्था । अथवा ब्राह्मणस्यैव शक्तिसकृदभ्यासाद्यपेक्षया व्यवस्थितं प्रायश्चित्तत्रयं द्रष्टव्यम् ॥ (चितिभ्रंष्टा तु या नारी मोहाद्विचलिता क्वचित् । प्राजापत्येन शुद्ध्येत्तु तस्मादेवापकर्मणः॥' चितिभ्रष्टा भर्तुरनुगमने आपस्तम्बस्मरणात् क्वचिदित्युक्तम्।) तथा मरणसंन्यासिनामपि यमेन प्रायश्चित्तमुक्तम्-'जलाग्युद्धन्धनभ्रष्टाः प्रवज्यानाशकच्युताः । विषप्रपतनप्रायशस्त्रघातच्युताश्च ये ॥ नवैते प्रत्यवसिताः सर्वलोकबहिष्कृताः । चान्द्रायणेन शुद्ध्यन्ति तप्तकृच्छ्रद्वयेन वा ॥' इति ॥ इदं च चान्द्रायणं तप्तकृच्छ्रद्वयात्मकं प्रायश्चित्तद्वयं शक्त्याद्यपेक्षया व्यवस्थितं विज्ञेयम् । यदा तु 'शस्त्रघातहताश्च' इति पाठः तदात्मत्यागाद्यशास्त्रीयमरणनिमित्तस्तत्पुत्रादेरुपदेशो द्रष्टव्यः ॥ यत्पुनर्वसिष्ठेनोक्तम्-'जीवनात्मत्यागी कृच्छ्रे द्वादशरात्रं चरेत् त्रिरात्रं चोपवसेत्' इति तदप्यध्यवसिताशास्त्रीयमरणस्यैव कथंचिज्जीवने शक्त्यपेक्षया द्रष्टव्यम् । अथवाध्यवसायमात्रे त्रिरात्रं शस्त्रादिक्षतस्य द्वादशरात्रमिति व्यवस्था । इदं चावकीर्णिप्रायश्चित्तं गुरुदारतत्समव्यतिरिक्तागम्यागमनविषयम् । तत्र गुरुतरप्रायश्चित्तस्य दर्शितत्वात् । नच लघुनावकीर्णिव्रतेन द्वादशवार्षिकाद्यपनोद्यमहापातकदोषनिबर्हणमुचितम् । नच ब्रह्मचारित्वोपाधिकं लघुप्रायश्चित्तविधानमिति युक्तम् । आश्रमान्तराणां द्वैगुण्यादिवृद्धेब्रह्महत्याप्रकरणे दर्शितत्वात् । नचानागम्यागमनप्रायश्चित्तं पृथक्कर्तव्यम् । ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनेनान्तरीयकत्वात्, अतोऽन्यत्रापि यस्मिन्निमित्ते यन्निमित्तान्तरं समं न्यूनं वावश्यंभाविनः। तत् पृथक् नैमित्तिकं प्रयुङ्क्ते । यथा (मनुः ११०२०८)-'अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रे निपातने । कृच्छ्रातिकृच्छ्रोऽमृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥' इत्यत्र शोणितो. त्पादननिमित्तेऽवगूरणनिपातलक्षणं निमित्तद्वयमवश्यंभावित्वेन स्वनैमित्तिकं कृच्छ्रमतिकृच्छ्रे च न प्रयुङ्क्ते एवमन्यत्राप्यूहनीयम् । यत्र पुनर्निमित्तानामन्तीवनियमो नास्ति तत्र पुनर्नैमित्तिकानि पृथक्प्रयुज्यन्ते । निमित्तानि यथा'यदा पर्वणि परभायाँ रजस्वलां तैलाभ्यक्तो दिवा जले गच्छति' इति ॥ ननु ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनान्तरीयकत्वं नास्त्येव । पुत्रिकागमनेऽगम्यागमनदोषाभावात् । तथाहि न तावत्पुत्रिका कन्या अक्षतयोनित्वात्, नापि परभार्या प्रदानाभावात्, नापि वेश्या अतद्वत्तित्वात्, नापि विधवा भर्तृमरणाभावात्, अतः पुत्रिकायाः क्वाप्यनन्तर्भावादप्रतिषिद्धेति तत्रैव विप्लुतस्य केवलमवकीर्णिव्रतम् । अन्यत्र विप्लुतस्य तु निमित्तान्तरसंनिपातादवकीर्णिव्रतं नैमित्तिकान्तरमपि प्रयोक्तव्यमिति । तदसत् । पुत्रिकाया अपि परभार्या१ अयं धनुश्चिह्नगो भागोऽधिकः ङ. २ भाविनस्तत्र ख. ३ अवगोरण ङ. ४ प्रयुक्तं अत एव. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554