________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४४१
पुनः सेवेत मैथुनम् । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः॥' इति। तथाच प. राशरः-'यःप्रत्यवसितो विप्रःप्रव्रज्यातो विनिर्गतः। अनाशकनिवृत्तश्च गार्हस्थ्यं चेच्चिकीर्षति ॥ स चरेत्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च । जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिमाप्नुयात् ॥' इति, तत्र ब्राह्मणस्य पाण्मासिकः कृच्छ्रः पुनः संन्याससंस्कारश्च । क्षत्रियस्य चान्द्रायणत्रयम् । वैश्यस्य कृच्छ्रत्रयमिति व्यवस्था । अथवा ब्राह्मणस्यैव शक्तिसकृदभ्यासाद्यपेक्षया व्यवस्थितं प्रायश्चित्तत्रयं द्रष्टव्यम् ॥ (चितिभ्रंष्टा तु या नारी मोहाद्विचलिता क्वचित् । प्राजापत्येन शुद्ध्येत्तु तस्मादेवापकर्मणः॥' चितिभ्रष्टा भर्तुरनुगमने आपस्तम्बस्मरणात् क्वचिदित्युक्तम्।) तथा मरणसंन्यासिनामपि यमेन प्रायश्चित्तमुक्तम्-'जलाग्युद्धन्धनभ्रष्टाः प्रवज्यानाशकच्युताः । विषप्रपतनप्रायशस्त्रघातच्युताश्च ये ॥ नवैते प्रत्यवसिताः सर्वलोकबहिष्कृताः । चान्द्रायणेन शुद्ध्यन्ति तप्तकृच्छ्रद्वयेन वा ॥' इति ॥ इदं च चान्द्रायणं तप्तकृच्छ्रद्वयात्मकं प्रायश्चित्तद्वयं शक्त्याद्यपेक्षया व्यवस्थितं विज्ञेयम् । यदा तु 'शस्त्रघातहताश्च' इति पाठः तदात्मत्यागाद्यशास्त्रीयमरणनिमित्तस्तत्पुत्रादेरुपदेशो द्रष्टव्यः ॥ यत्पुनर्वसिष्ठेनोक्तम्-'जीवनात्मत्यागी कृच्छ्रे द्वादशरात्रं चरेत् त्रिरात्रं चोपवसेत्' इति तदप्यध्यवसिताशास्त्रीयमरणस्यैव कथंचिज्जीवने शक्त्यपेक्षया द्रष्टव्यम् । अथवाध्यवसायमात्रे त्रिरात्रं शस्त्रादिक्षतस्य द्वादशरात्रमिति व्यवस्था । इदं चावकीर्णिप्रायश्चित्तं गुरुदारतत्समव्यतिरिक्तागम्यागमनविषयम् । तत्र गुरुतरप्रायश्चित्तस्य दर्शितत्वात् । नच लघुनावकीर्णिव्रतेन द्वादशवार्षिकाद्यपनोद्यमहापातकदोषनिबर्हणमुचितम् । नच ब्रह्मचारित्वोपाधिकं लघुप्रायश्चित्तविधानमिति युक्तम् । आश्रमान्तराणां द्वैगुण्यादिवृद्धेब्रह्महत्याप्रकरणे दर्शितत्वात् । नचानागम्यागमनप्रायश्चित्तं पृथक्कर्तव्यम् । ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनेनान्तरीयकत्वात्, अतोऽन्यत्रापि यस्मिन्निमित्ते यन्निमित्तान्तरं समं न्यूनं वावश्यंभाविनः। तत् पृथक् नैमित्तिकं प्रयुङ्क्ते । यथा (मनुः ११०२०८)-'अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रे निपातने । कृच्छ्रातिकृच्छ्रोऽमृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥' इत्यत्र शोणितो. त्पादननिमित्तेऽवगूरणनिपातलक्षणं निमित्तद्वयमवश्यंभावित्वेन स्वनैमित्तिकं कृच्छ्रमतिकृच्छ्रे च न प्रयुङ्क्ते एवमन्यत्राप्यूहनीयम् । यत्र पुनर्निमित्तानामन्तीवनियमो नास्ति तत्र पुनर्नैमित्तिकानि पृथक्प्रयुज्यन्ते । निमित्तानि यथा'यदा पर्वणि परभायाँ रजस्वलां तैलाभ्यक्तो दिवा जले गच्छति' इति ॥ ननु ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनान्तरीयकत्वं नास्त्येव । पुत्रिकागमनेऽगम्यागमनदोषाभावात् । तथाहि न तावत्पुत्रिका कन्या अक्षतयोनित्वात्, नापि परभार्या प्रदानाभावात्, नापि वेश्या अतद्वत्तित्वात्, नापि विधवा भर्तृमरणाभावात्, अतः पुत्रिकायाः क्वाप्यनन्तर्भावादप्रतिषिद्धेति तत्रैव विप्लुतस्य केवलमवकीर्णिव्रतम् । अन्यत्र विप्लुतस्य तु निमित्तान्तरसंनिपातादवकीर्णिव्रतं नैमित्तिकान्तरमपि प्रयोक्तव्यमिति । तदसत् । पुत्रिकाया अपि परभार्या१ अयं धनुश्चिह्नगो भागोऽधिकः ङ. २ भाविनस्तत्र ख. ३ अवगोरण ङ. ४ प्रयुक्तं अत एव.
For Private And Personal Use Only