Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 477
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । अभिशंसिप्रायश्चित्तप्रसङ्गादभिशस्तप्रायश्चित्तमाहअभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयमेव वा । निर्वपेत्तु पुरोडाशं वायव्यं पशुमेव वा ॥ २८६ ॥ यः पुनर्मिथ्याभिशस्तः स कृच्छ्रं प्राजापत्यं चरेत् । अग्निदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पशुना । एषां च पक्षाणां शक्तिसंभवापेक्षया व्यवस्था । यत्तु वसिष्ठेन 'मासमन्भक्षणमुक्त - मेतेनैवाभिशस्तो व्याख्यातः' इति, तदभिशस्तस्यैव किंचित्कालमकृतप्रायश्चित्तस्य सतो द्रष्टव्यम् | 'संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः' इति दण्डातिरेकदर्शनात् । यत्तु पैठीनसिनोक्तम् -- 'अनृतेनाभिशस्यमानः कृच्छ्रं चरेन्मासं पातकेषु महापातकेषु द्विमासम्' इति तदपि वासिष्टेन समानविषयम् । यत्तु बौधायनेनोक्तम्- 'पातकाभिशंसिने कृच्छ्रस्तदर्धमभिशस्तस्य' इति, तदुपपातकादिविषयं अशक्तविषयं वा । एवमन्येषामप्युच्चावचप्रायश्चित्तानामभिशस्तविषयाणां कालशक्त्याद्यपेक्षया व्यवस्था विज्ञेया । यथाह मनुः (११।२०० ) - 'पष्टान्नकालता मासं संहिताजप एव वा । होमाश्च शोकला नित्यमपाङ्कानां विशोधनम् ॥' इति । अपाङ्कानां मध्ये अभिशस्तादयः पठिताः । यद्यप्यत्राभिशस्तस्य निषिद्धाचरणं नोपलभ्यते तथापि मिथ्याभिशस्तत्व लिङ्गानुमितप्राग्भवीयनिषिद्धाचरणापूर्वनिबन्धनमिदं प्रायश्चित्तं कृमिदष्टानामिवेति न विरोधः २८६ अनियुक्तो भ्रातृजायां गच्छंश्चान्द्रायणं चरेत् । ४४५ किंच | यस्तु नियोगं विना भ्रातुर्ज्येष्टस्य कनिष्ठस्य वा भार्यां गच्छति स चान्द्रायणं चरेत् । एतच्च सकृदमतिपूर्वविषयं द्रष्टव्यम् । यत्तु शङ्खवचनम् - 'परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयातां ज्येष्ठभार्यामनियुक्तो गच्छंस्तदेव कनिष्ठभार्या च' इति, तत्कामकारविषयम् ॥ त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ २८७ ॥ किंचाह । यः पुनरुदक्यां रजस्वलां स्वभार्यामपि गच्छति स त्रिरात्रमुपोष्यान्ते घृतं प्राश्य विशुध्यति । इदमकामतः सकृद्गमनविषयम् । तत्रैवाभ्यासे 'रजस्व - लागमने सप्तरात्रम्' इति शातातपेनोक्तं द्रष्टव्यम् । कामतः सकृद्गमनेऽप्येतदेव । यत्तु बृहत्संवर्तेनोक्तम्- 'रजस्वलां तु यो गच्छेद्गर्भिणीं पतितां तथा । तस्य पापविशुध्यर्थमतिकृच्छ्रं विशोधनम् ॥' इति, तत्कामतोऽभ्यासविषयम् । यत्पुनः शङ्खेन त्रिवार्षिकमुक्तम्- ' पादस्तु शूद्रहत्यायामुदक्यागमने तथा' इति, तत्कामतोऽत्यन्तानवच्छिन्नाभ्यासविषयम् । रजस्वलायास्तु रजस्वलादिस्पर्शे प्रायश्चित्तं स्मृत्यन्तरोक्तं द्रष्टव्यम् । तथाच बृहद्वसिष्ठः'स्पृष्ठे रजस्वलेऽन्योन्यं सेवर्णे त्वेकभर्तृके । कौमादकामतो वापि सद्यः स्नानेन १ देवकृतस्यै नसोऽवयजनमसीत्यादिकं शाकलशाखायां सूक्तं प्रोक्तं तेन मासपर्यन्तं होमः कार्यः २ सगोत्रे ङ. ३ कामतोऽकामतो वापि ङ. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554