________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
अभिशंसिप्रायश्चित्तप्रसङ्गादभिशस्तप्रायश्चित्तमाहअभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयमेव वा । निर्वपेत्तु पुरोडाशं वायव्यं पशुमेव वा ॥ २८६ ॥
यः पुनर्मिथ्याभिशस्तः स कृच्छ्रं प्राजापत्यं चरेत् । अग्निदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पशुना । एषां च पक्षाणां शक्तिसंभवापेक्षया व्यवस्था । यत्तु वसिष्ठेन 'मासमन्भक्षणमुक्त - मेतेनैवाभिशस्तो व्याख्यातः' इति, तदभिशस्तस्यैव किंचित्कालमकृतप्रायश्चित्तस्य सतो द्रष्टव्यम् | 'संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः' इति दण्डातिरेकदर्शनात् । यत्तु पैठीनसिनोक्तम् -- 'अनृतेनाभिशस्यमानः कृच्छ्रं चरेन्मासं पातकेषु महापातकेषु द्विमासम्' इति तदपि वासिष्टेन समानविषयम् । यत्तु बौधायनेनोक्तम्- 'पातकाभिशंसिने कृच्छ्रस्तदर्धमभिशस्तस्य' इति, तदुपपातकादिविषयं अशक्तविषयं वा । एवमन्येषामप्युच्चावचप्रायश्चित्तानामभिशस्तविषयाणां कालशक्त्याद्यपेक्षया व्यवस्था विज्ञेया । यथाह मनुः (११।२०० ) - 'पष्टान्नकालता मासं संहिताजप एव वा । होमाश्च शोकला नित्यमपाङ्कानां विशोधनम् ॥' इति । अपाङ्कानां मध्ये अभिशस्तादयः पठिताः । यद्यप्यत्राभिशस्तस्य निषिद्धाचरणं नोपलभ्यते तथापि मिथ्याभिशस्तत्व लिङ्गानुमितप्राग्भवीयनिषिद्धाचरणापूर्वनिबन्धनमिदं प्रायश्चित्तं कृमिदष्टानामिवेति न विरोधः २८६ अनियुक्तो भ्रातृजायां गच्छंश्चान्द्रायणं चरेत् ।
४४५
किंच | यस्तु नियोगं विना भ्रातुर्ज्येष्टस्य कनिष्ठस्य वा भार्यां गच्छति स चान्द्रायणं चरेत् । एतच्च सकृदमतिपूर्वविषयं द्रष्टव्यम् । यत्तु शङ्खवचनम् - 'परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयातां ज्येष्ठभार्यामनियुक्तो गच्छंस्तदेव कनिष्ठभार्या च' इति, तत्कामकारविषयम् ॥
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ २८७ ॥
किंचाह । यः पुनरुदक्यां रजस्वलां स्वभार्यामपि गच्छति स त्रिरात्रमुपोष्यान्ते घृतं प्राश्य विशुध्यति । इदमकामतः सकृद्गमनविषयम् । तत्रैवाभ्यासे 'रजस्व - लागमने सप्तरात्रम्' इति शातातपेनोक्तं द्रष्टव्यम् । कामतः सकृद्गमनेऽप्येतदेव । यत्तु बृहत्संवर्तेनोक्तम्- 'रजस्वलां तु यो गच्छेद्गर्भिणीं पतितां तथा । तस्य पापविशुध्यर्थमतिकृच्छ्रं विशोधनम् ॥' इति, तत्कामतोऽभ्यासविषयम् । यत्पुनः शङ्खेन त्रिवार्षिकमुक्तम्- ' पादस्तु शूद्रहत्यायामुदक्यागमने तथा' इति, तत्कामतोऽत्यन्तानवच्छिन्नाभ्यासविषयम् । रजस्वलायास्तु रजस्वलादिस्पर्शे प्रायश्चित्तं स्मृत्यन्तरोक्तं द्रष्टव्यम् । तथाच बृहद्वसिष्ठः'स्पृष्ठे रजस्वलेऽन्योन्यं सेवर्णे त्वेकभर्तृके । कौमादकामतो वापि सद्यः स्नानेन
१ देवकृतस्यै नसोऽवयजनमसीत्यादिकं शाकलशाखायां सूक्तं प्रोक्तं तेन मासपर्यन्तं होमः कार्यः २ सगोत्रे ङ. ३ कामतोऽकामतो वापि ङ.
For Private And Personal Use Only