SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४४ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः मिथ्यामिशंसिनः प्रायश्चित्तविवक्षया तदुपयोग्यर्थवादं तावदाह मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः ॥ २८४ ॥ मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् । यस्तु परोत्कर्षेाजनितरोषकलुषितान्तःकरणो जनसमक्षं मिथ्यैवाभिशाप ब्रह्महत्यादिकमनेन कृतमित्यारोपयति तस्य तदेव द्विगुणं भवति । यस्तु विद्यमानमेव दोषमलोकविदितं जनसमक्षं प्रकाशयति तस्यापि तत्पातकिसमदोषभाक्त्वम् । तथाचापस्तम्बः-'दोषं बुद्धा न पूर्वः परेभ्यः पतितस्य संमास्याता स्यात् परिहरेच्चैनं धर्मेषु' इति । न केवलं मिथ्याभिशंसी द्विगुणदोषभाक् । अपितु मिथ्याभिशस्तस्य यदन्यहुरितजातं तदपि समादत्त इति वक्ष्यमाणप्रायश्चित्तेऽर्थवादोन पुनः पापद्वैगुण्यादिप्रतिपादनमत्र विवक्षितम् । निमित्तस्य लघुत्वाल्लघुप्रायश्चित्तस्योपदेक्ष्यमाणत्वात् कृतनाशाकृताभ्यागमप्रसङ्गाच्च २८४ तत्र प्रायश्चित्तमाह महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् । अब्भक्षो मासमासीत स जापी नियतेन्द्रियः ॥२८५॥ यस्तु महापापेन ब्रह्महत्यादिना गोवधाधुपपापेन वा मृषैव परमभिशंसति स मासं यावजलाशनो जपशीलो जितेन्द्रियश्च भवेत् । जपश्च शुद्धवतीनां कार्यः । 'ब्राह्मणमनृतेनाभिशस्य पतनीयेनोपेपातकेन वा मासमभक्षः शुद्धवतीरावर्तयेदश्वमेधावभृथं वा गच्छेत्' इति वसिष्ठस्मरणात् । महापापोपपापग्रहणमन्येषामप्यतिपातकादीनामुपलक्षणम् । एतच्च ब्राह्मणस्यैव ब्राह्मणेनाभिशंसने कृते द्रष्टव्यम् । यदा तु ब्राह्मणः क्षत्रियादेरभिशंसनं करोति क्षत्रियादिर्वा ब्राह्मणस्य तदा-'प्रतिलोमापवादेषु द्विगुणस्त्रिगुणो दमः । वर्णानामानुलोम्येन तस्मादार्धहानितः ॥' इति दण्डानुसारेण प्रायश्चित्तस्य वृद्धिहासौ कल्पनीयौ । भूताभिशंसिनस्तु पूर्वोक्तार्थवादानुसारेण दण्डानुसारेण च तदर्धे कल्पनीयम् । तथातिपातकाभिशंसिन एतदेव व्रतं पादोनम् । पातकाभिशंसिनस्त्वर्धम् । उपपातकाभिशंसिनस्तु पादः । (मनुः ११११२६)-'तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः' इत्युपपातकभूतक्षत्रियादिवधे महापातकप्रायश्चिततुरीयांशस्य दर्शनात् । एवं प्रकीर्णाभिशंसिनोऽपि उपपातकाम्यूनं कल्पनीयम् । 'शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत्' इति स्मरणात् । यत्तु शङ्खलिखिताभ्यां 'नास्तिकः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिनो मिथ्याभि. शंसी चेत्यते षड्वर्षाणि ब्राह्मणगृहेषु भैक्षं चरेयुः संवत्सरं धौतभैक्षमश्नीयुः षण्मासान्वा गा अनुगच्छेयुः' इति गुरुप्रायश्चित्तमुक्तं तदभ्यासतारतम्यापेक्षया योजनीयम् ॥ २८५ ॥ १ समाख्याने इति पाठान्तरम्. २ नोपपतनीयेन वा. ङ. ३ नोपि ततो न्यूनं ङ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy