________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
४४३
किंच । ब्रह्मचारिणा अमत्या मधुमांसभक्षणे कृच्छ्रः कार्यः । तदनन्तरमवशिशनि व्रतानि समापयेत् । एतच्च शिष्टभोजनाशशादिमांसभक्षणविषयम् । 'ब्रह्मचारी चेन्मांसमश्नीयाच्छिष्टभोजनीयं कृच्छ्रं द्वादशरात्रं चरित्वा व्रतशेषं समापयेत्' इति वसिष्ठस्मरणात् । द्वादशरात्रग्रहणं तु मतिपूर्वाभ्यासापेक्षयातिकृच्छ्रपराकादेरपि प्रात्यर्थम् । यदा तु मांसैकापनोद्यव्याध्यभिभूतस्तदा मांसं गुरोरुच्छिष्टं कृत्वा भक्षणीयम् । 'स चेद्याधितः कामं गुरोरुच्छिष्टं भैषज्यार्थं सर्व प्राश्नीयात्' इति तेनैवोक्तत्वात् । सर्वग्रहणं मांसलशुनाद्यभक्ष्यमात्र संग्रहार्थम् । तद्भक्षणेन चापगतव्याधिरादित्यमुपतिष्ठेत । तथाच बौधायनः -- 'येनेच्छेत्तु चिकित्सितुं स यदाऽगदो भवति तदोत्थायादित्यमुपतिष्ठेत हंसः शुचिषत्' इति । मधुनोऽप्यज्ञानतः प्राशनोपपत्तौ न दोषः । 'अकामोपनतं मधु वाजसनेयके न दुष्यति' इति वसिष्ठस्मरणात् । अन्तसूतकान्नादिभक्षणप्रायश्चित्तं स्वभक्ष्यप्रायश्चिप्रकरणे वक्ष्यामः । आज्ञाप्रतिघातादिना गुरोः प्रतिकूलमाचरन् पादप्रणिपातादिना गुरुं प्रसाद्य विशुध्यति ॥ २८२ ॥
ब्रह्मचारिप्रायश्चित्तप्रसङ्गाङ्कुरोरपि प्रायश्चित्तमाह
कृच्छ्रत्रयं गुरुः कुर्यान्प्रियते प्रहितो यदि ॥ २८३ ॥
यस्तु गुरुश्चौरोरगव्याघ्रादिभयाकुलप्रदेशे सान्द्रतरान्धकाराकुलितनिशीथावसरे कार्यार्थ शिष्यं प्रेरयति स च गुरुणा प्रेरितो देवान्मृतस्तदा स गुरुः कृच्छ्राणां प्राजापत्यादीनां त्रयं कुर्यात् । न पुनस्त्रयः प्राजापत्याः । तथा सति पृथक्त्वनिवेशिनी संख्यानुपपन्ना स्यात् । नच 'एकादश प्रयाजान्यजति' इतिवदावृत्यपेक्षा संख्येति चतुरस्रम् । स्वरूपपृथक्त्वे संभवत्यावृत्यपेक्षाया अन्या - य्यत्वात् । यदियमुत्पन्नगता संख्या स्यात्तदा स्यादपि कथंचिदावृत्त्यपेक्षा । किंतूत्पत्तिगतेयं, अतस्तिस्र आज्याहुतीर्जुहोती तिवत्स्वरूपपृथक्त्वापेक्षयैव त्रित्वसंख्याघटना युक्ता ॥ २८३ ॥
सकलहिंसाप्रायश्चित्तापवादमाह
क्रियमाणोपकारे तु मृते विप्रे न पातकम् ।
[ विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥ ]
आयुर्वेदोपदेशानुसारेणौषधपथ्यान्नप्रदानादिभिश्चिकित्सादिना क्रियमाण उपकारे यस्य ब्राह्मणादेस्तस्मिन्दैवात्कथंचिन्मृतेऽपि पातकं नैव भवति । विप्रग्रहणं प्राणिमात्रोपलक्षणार्थम् । अतएव 'यत्रणे गोचिकित्सार्थे गूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यान्न स पापेन लिप्यते ॥' इत्यादि संवर्ताद्यैरुक्तम् । एतच्च प्रपचितं प्राक् ॥
१ पृथङ्गिवेशिनी ख. २ इदम ङ. पुस्तके एवाधिकमस्ति ३ गोश्चिकित्सार्थे ख.
For Private And Personal Use Only