________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
४४६
[ प्रायश्चित्ताध्यायः
शुध्यतः ॥' इति । असपत्त्योस्तु सवर्णयोरकामतः स्नानमात्रम् । उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया । तस्मिन्नेवाहनि स्नात्वा शुद्धिमा मोत्यसंश यम् ॥' इति मार्कण्डेयस्मरणात् ॥ यत्तु कश्यपवचनम् — 'रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि । एकरात्रं निराहारा पञ्चगव्येन शुध्यति ॥' इति । तत्कामकारविषयम् । असवर्णास्पर्शे तु बृहद्वसिष्ठेन विशेषो दर्शितः'स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजापि च । कृच्छ्रेण शुध्यते पूर्वा शूद्री दानेन शुध्यति ॥ दानेनेति पादकृच्छ्रप्रत्याम्नाय भूतनिष्कचतुर्थांशदानेन शुध्यतीति । स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजापि च । पादहीनं चरेत्पूर्वा पादकृच्छ्रं तथोत्तरा ॥ स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा । कृच्छ्रार्धाच्छुध्यते पूर्वा तूत्तरा च तदर्धतः ॥ स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया शूद्रजापि च । उपवासैस्त्रिभिः पूर्वा त्वहोरात्रेण चोत्तरा ॥ स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया वैश्यजापि च | त्रिरात्राच्छुध्यते पूर्वा स्वहोरात्रेण चोत्तरा ॥ स्पृष्ट्वा रजस्वलान्योयं वैश्याशूद्रा तथैव च । त्रिरात्राच्छुध्यते पूर्वां दूसरा च दिनद्वयात् ॥ वर्णानां कामतः स्पर्शे शुद्धिरेषा पुरातनी ॥' इति ॥ अकामतस्तु बृहद्विष्णुनोक्तं स्नानमात्रम् - 'रजस्वलां हीनवर्णी रजस्वला स्पृष्ट्वा न तावदश्नीयाथावन्न शुद्धा स्यात् । सवर्णामधिकवर्णा वा स्पृष्ट्वा सद्यः स्नात्वा विशुध्यति' इति ॥ चण्डालादिस्पर्शे तु बृहद्वसिष्ठेन विशेष उक्तः - 'पतितान्त्यश्वपाकेन संस्पृष्टा चेद्रजस्वला । तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥ प्रथमेऽह्नि त्रिरात्रं स्याद्वितीये व्यहमेव तु | अहोरात्रं तृतीयेऽह्नि परतो नक्तमाचरेत् ॥ शूद्रयोच्छिष्टया स्पृष्टा शुना चे
हमाचरेत् ॥' इति । तान्यहानि व्यतिक्रम्य अनाशकेन नीत्वेति यावत् । एतत्कामतः स्पर्शविषयम् । अकामतस्तु - ' रजस्वला तु संस्पृष्टा चाण्डालान्त्यश्ववायसैः । तावत्तिष्ठेनिराहारा यावत्कालेन शुध्यति ॥' इति बौधायनेनोक्तं द्रष्टव्यम् ॥ यत्पुनस्तेनैवोक्तम्- 'रजस्वला तु संस्पृष्टा ग्रामकुक्कुटस्करैः । श्वभिः स्नात्वा क्षिपेत्तावद्यावच्चन्द्रस्य दर्शनम् ॥' इति, तदशक्तविषयम् ॥ यदा तु भुञ्जानायाः श्वादिस्पर्शो भवति तदा स्मृत्यन्तरे विशेष उक्तः - ' रजस्वला तु भुञ्जाना श्वान्त्यजादीन्स्पृशेद्यदि । गोमूत्रयावकाहारा षड्रात्रेण विशुध्यति ॥ अशक्तौ काञ्चनं दद्याद्विप्रेभ्यो वापि भोजनम् ॥' इति ॥ यदा तूच्छिष्टयोः परस्परस्पर्शनं भवति तदा - ' उच्छिष्टोच्छिष्टया स्पृष्टा कदाचित्स्त्री रजस्वला । कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानैरुपोषिता ॥' इत्यत्रिणोक्तं द्रष्टव्यम् ॥ यदा तूच्छिष्टाद्विजान्रजस्वला स्पृशति तदा - 'द्विजान्कथंचिदुच्छिष्टान्रजःस्था यदि संस्पृशेत् । अधोच्छिष्टे खहोरात्रमूर्ध्वोच्छिष्टे त्र्यहं क्षिपेत् ॥' इति मार्कण्डेयोक्तं द्रष्टव्यम् ॥ एवमवकीर्णिप्रायश्चित्तप्रसङ्गात्कानिचिदनुपातकभूतप्रायश्चित्तान्यपि व्याख्याय प्रकृतमनुसरामः । तत्रावकीर्णानन्तरं 'सुतानां चैव विक्रयः' इत्युक्तं तत्र मनुयोगीश्वरोक्तानि त्रैमासिकादीनि कामाकामजातिशक्त्याद्यपेक्षया पूर्ववद्व्यवस्थापनीयानि ॥ यत्तु शङ्खवचनम् - 'देवगृहप्रतिश्रयोद्यानारामसभाप्र
१ चापरा ङ. २ दीनि कामजाति ङ.
For Private And Personal Use Only