SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । पातडागपुण्यसेतुसुतविक्रयं कृत्वा तप्तकृच्छ्रे चरेत्' इति, यच्च पराशरेणोक्तम् -'विक्रीय कन्यकां गां च कृच्छ्रे सान्तपनं चरेत्' इति, तदुभयमप्यापद्यकामतो द्रष्टव्यम् ॥ कामतस्तु-'नारीणां विक्रयं कृत्वा चरेच्चान्द्रायणव्रतम् । द्विगुणं पुरुषस्यैव व्रतमाहुर्मनीषिणः ॥' इति चतुर्विंशतिमतोक्तं द्रष्टव्यम् ॥ यत्तु पैठीनसिनोक्तम्-'आरामतडागोदपानपुष्करिणीसुकृतसुतविक्रये त्रिषवणस्नाय्यधःशायी चतुर्थकालाहारः संवत्सरेण पूतो भवति' इति तदेकपुत्रविषयम् । तदनन्तरं 'धान्यकुप्यपशुस्तेयम्' इत्युक्तं, तत्प्रायश्चित्तानि च स्तेयप्रकरणे प्रपञ्चितानि ॥ २८७ ॥ भमन्तरमयाज्यानां च याजनमित्युक्तं तत्र प्रायश्चित्तमाह जीन्कृच्छ्रानाचरेद्रात्ययाजकोभिचरन्नपि । वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतम् ॥ २८८ ॥ यस्तु सावित्रीपतितानां याजनं करोति स प्राजापत्यप्रभृतीस्त्रीन्कृच्छ्रानाचरेत् । एतेषां च गुरुलघुभूतानां कृच्छ्राणां निमित्तं गुरुलघुभावेन कल्पनीयम् ॥ तथा अभिचरमपीदमेव प्रायश्चित्तं कुर्यात् । एतच्चाग्निदाद्याततायिव्यतिरेकेण 'षट्स्वभिचरा पतति' इति वसिष्ठस्मरणात् ॥ अपिशब्दो हीनयाजकान्त्येष्टियाजकयोः संग्रहार्थः । अतएवोक्तं मनुना (११११९७)-'व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छै य॑पोहति ॥' इति । परेषामन्त्यकर्मेत्यत्यन्ताभ्यासविषयं शूद्रान्त्यकर्मविषयं वा । प्रायश्चित्तस्य गुरुस्वात् । अहीनो द्विरात्रादिादशाहपर्यन्तोऽहर्गणयागः । यत्तु शातातपेनोक्तम्-'पतितसावित्रीकाझोपनयेनाध्यापयेश याजयेत् य एतानुपनयेदध्यापयेद्याजयेद्वा स उद्दालकव्रतं चरेत्' इति तत्कामकारविषयम् । उद्दालकवतं च प्राग्दर्शितम् । एतच्च कृच्छ्रनयं साधारणोपपातकप्रायश्चित्तस्यापवादकं अत उपपातकसाधारणप्रायश्चित्तं शूद्राद्ययाज्ययाजने व्यवतिष्ठते । तत्र कामतस्त्रैमासिकम् । अकामतस्तु योगीश्वरोक्तं मासव्रतादि । यत्तु प्रचेतसा शूद्रयाजकादीन्पठित्वोक्तम्-'एते पञ्चतपोभ्रावकाशजलशयनान्यनुतिष्ठेयुः । क्रमेण ग्रीष्मवर्षाहेमन्तेषु मासं गोमूत्रयावकमश्नीयुः' इति तत्कामतोऽभ्यासविषयम् । यत्तु यमेनोक्तम्-'पुरोधाः शूद्रवर्णस्य ब्राह्मणो यः प्रवर्तते । स्नेहादर्थप्रसङ्गाद्वा तस्य कृच्छ्रो विशोधनम् ॥' इति, तदशक्तविषयम् । यच्च पैठीनसिनोक्तम्-'शूद्रयाजकः सर्वव्यपरित्यागात्पूतो भवति प्राणायामसहस्रेषु दशकृत्वोभ्यस्तेषु' इति, तदप्यकामतोऽभ्यासविषयम् । यत्तु गौतमेनोक्तम्-'निषिद्धमत्रप्र. योगे सहस्रवागुपतिष्ठेदिति निषिद्धानां पतितादीनां याजनाध्यापनात्मके मन्त्रप्रयोगे बहुशोऽभ्यस्ते प्राकृतं ब्रह्मचर्यमुपदिष्टं तत्कामतोऽभ्यासविषयम् । तथा यः स्ववेदं विप्लावयति यश्च रक्षणक्षणोऽपि तस्करव्यतिरिक्तं शरणागतमुपेक्षते सोऽपि संवत्सरं यवोदनं भुआनः शुध्यति । तत्र विप्लवो नाम पर्वचाण्डालश्रो१ नाध्यापयेद्य एता ख. २ यस्तु वेदं ङ. - -- For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy