Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 480
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४८ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः त्रावकाशाद्यनध्यायेष्वध्ययनम् । उत्कर्षहेतोरधीयानस्य किं पठसि नाशितं त्वये. त्येवं पर्यनुयोगदानं वा विप्लावनमुच्यते । अतएवोक्तं स्मृत्यन्तरे-'दत्तानुयो. गानध्येतुः पतितान्मनुरब्रवीत्' इति । यत्तु वसिष्ठेनोक्तम्-'पतितचाण्डालशवश्रावणे त्रिरात्रं वाग्यता अनश्नन्त आसीरन् सहस्रपरमं वा तदभ्यस्यन्तः पूता भवन्तीति विज्ञायते' इति । 'एतेनैव गर्हिताध्यापकयाजका व्याख्याताः दक्षिणात्यागाच्च पूता भवन्तीति विज्ञायत' इति तद्बुद्धिपूर्वविषयम् । यत्तु षट्त्रिंशन्मतेऽभिहितम्-'चाण्डालश्रोत्रावकाशे श्रुतिस्मृतिपाठे एकरात्रमभो. जनम्' इति, तदबुद्धिपूर्वविषयम् ॥ यदा सर्पाद्यन्तरागमनमानं भवति न पुनस्तत्राधीते तत्रापि प्रायश्चित्तं यमेनोक्तम्-'सर्पस्य नकुलस्याथ अजमार्जारयोस्तथा । मूषकस्य तथोष्ट्रस्य मण्डूकस्य च योषितः ॥ पुरुषस्यैडकस्यापि शुनोऽश्वस्य खरस्य च । अन्तरागमने सद्यः प्रायश्चित्तमिदं शृणु ॥ त्रिरात्रमुपवासश्च त्रिरश्चाभिषेचनम् । ग्रामान्तरं वा गन्तव्यं जानुभ्यां नात्र संशयः ॥' इति ॥ पितृमातृसुतत्यागतडागारामविक्रयेषु मनुयोगीश्वरोक्कोपपातकसाधारणप्रायश्चित्तानि पूर्ववजातिशक्तिगुणाद्यपेक्षया योज्यानि । तत्र पितृमात्रादित्यागस्य 'अकारणपरित्यक्ता मातापित्रोणुरोस्तथा' इत्यपालेयमध्ये पाठात्तन्निमित्तमपि प्रायश्चित्तं भवति । यथाह मनुः (१११२७०)-'षष्ठान्नकालता मासं संहिताजप एव वा । होमाश्च शाकला नित्यमपाङ्गानां विशोधनम् ॥' इति । अ. पाताश्च श्राद्धकाण्डे 'ये स्तेनपतितक्कीबाः' इत्यादिवाक्यैर्दर्शिताः । तडागाराम. विक्रयेषु च कतिचिद्विशेषद्वैमासिकप्रायश्चित्तानि सविषयाणि सुतविक्रयप्रायश्चित्तकथनावसरे कथितानि ॥ अनन्तरं कन्याया दूषणमित्युक्तं तत्र च त्रैमासिकद्वैमासिकचान्द्रायणादीनि वर्णानां सवर्णाविषये योज्यानि । आनुलोम्ये पुनर्मासिकपयोशनं प्राजापत्यं वा ।—'सकामास्वनुलोमासु न दोपस्त्वन्यथा दमः' इति दण्डाल्पत्वदर्शनात् ॥ यत्तु शङ्खनोक्तम्- 'कन्यादूषी सोमविक्रयी च कृच्छ्रेमब्भक्षं चरेयाताम्' इति । यच्च हारीतवचनम्-'कन्यादूषी सोमविऋयी वृषलीपतिः कौमारदारत्यागी सुरामद्यपः शूद्रयाजको गुरोः प्रतिहन्ता नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिन्नो मिथ्याभिशंसी पतितसंव्यवहारी मित्रध्रुक् शरणागतघाती प्रतिरूपकवृत्तिरित्येते पञ्चतपोभ्रावकाशजलशयनान्यनुतिष्ठेयुीष्मवर्षा हेमन्तेषु मासं गोमूत्रयावकमनीयुः' इति । तदुभयमपि क्षत्रियवैश्ययोः प्रातिलोम्येन दूषणे योज्यम् । शूदस्य तु वध एव । 'दूषणे तु करच्छेद उत्तमायां वधस्तथा' इति वधदर्शनात् । परिविन्दैकयाजनकन्याप्रदानयोः कौटिल्ये शिष्टाप्रतिषिद्धव्रतलोपे चात्मार्थपाकक्रियारम्भे मद्यपस्त्रीनिषेवणे च साधारणोपपातकप्रायश्चित्तं प्राग्वद्ध्यवस्थापनीयम् । आद्ययोस्तु विशेषप्रायश्चित्तानि परिवेदनायाज्ययाजनप्रायश्चित्तकथनप्रस्तावे दर्शितानि । अनन्तरं स्वाध्यायत्याग इत्युक्तं तत्र व्यसनाशक्त्या त्यागे अधीतस्य च नाशनमिति ब्रह्महत्यासमप्रायश्चित्तमुक्तम् । शास्त्रश्रवणाद्याकुलतया त्यागे तु त्रैमासि. १ श्राद्धप्रकरणे ङ. २ कृच्छ्रमब्दं ङ. ३ कूटव्यवहारी मित्रध्रुक् ख. ४ परिविन्दकस्य ङ. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554