Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४०
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
पाकयज्ञविधानेन यजेत निति निशि ॥' इति । पशोरभावे चरुणा यष्टव्यम् । 'निर्ऋतिं वा चरुं निर्वपेत् तस्य जुहुयात्-कामाय स्वाहा, कामकामाय स्वाहा, नित्यै स्वाहा, रक्षोदेवताभ्यः स्वाहा' इति वसिष्ठस्मरणात् । एतच्चाशक्तवि. षयम् । शक्तस्य पुनर्गर्दभेनावकीर्णी नितिं चतुष्पथे यजेत् । 'तस्याजिनमूर्ध्व. वालं परिधाय लोहितपात्रः सप्तगृहान् भैक्षं चरेत्कर्माचक्षाणः संवत्सरेण शु. ध्यति' इति गौतमोक्तो वार्षिकतपःसमुचितः पशुयागश्वरुर्वा द्रष्टव्यः। तथा त्रिषवणस्नानमेककालभोजनं च द्रष्टव्यम् । (११।१२२-१२३)-'एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारं चरे क्षं स्वकर्म परिकीर्तयन् ॥ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् । उपस्पृशंस्त्रिषवणमब्देन स विशु. ध्यति ॥' इति मनुस्मरणात् ॥ इदं च वार्पिकमश्रोत्रियब्राह्मणपत्यां वैश्यायां श्रोत्रियपत्नयां च द्रष्टव्यम् ॥ यदा तु गुणवत्योाह्मणीक्षत्रिययोः श्रोत्रियभार्ययोरवकिरति तदा त्रिवार्षिकं द्विवार्षिकं च क्रमेण द्रष्टव्यम् ॥ यथाहतुः शङ्ख लिखितौ-'गुप्तायां वैश्यायामवकीर्णः संवत्सरं त्रिषवणमनुतिष्टेत् । क्षत्रियायां तु द्वे वर्षे ब्राह्मण्यां त्रीणि वर्षाणि' इति । यत्त्वगिरोवचनम्-'अवकी
निमित्तं तु ब्रह्महत्याव्रतं चरेत् । चीरवासास्तु षण्मासांस्तथा मुच्येत किल्बिषात् ॥' इति तदकामतो मानवाब्दिकविषयमीषद्ध्यभिचारिणीविषयं वा ॥'अत्यन्तव्यभिचरितासु पुनः स्वैरिण्यां वृपल्यामवकीर्णः सचैलं स्नात उदकुम्भ दद्याद्राह्मणाय । वैश्यायां चतुर्थकालाहारो ब्राह्मणान्भोजयेत् । यवसभारं च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रमुपोषितो घृतपानं दद्यात् । ब्राह्मण्यां पड़ा. त्रमुपोषितो गां च दद्यात् । गोष्ववकीर्णः प्राजापत्यं चरेत् । षण्ढायामवकीर्णः पलालभारं सीसमाषकं च दद्यात्' इति शङ्खलिखितोदितं वेदितव्यम् । एतच्चावकीर्णिप्रायश्चित्तं त्रैवर्णिकस्यापि ब्रह्मचारिणः समानम् । अवकीर्णी द्विजो राजा वैश्यश्चापि खरेण तु । इष्ट्वा भैक्षाशिनो नित्यं शुद्ध्यन्त्यब्दात्समाहिताः ॥' इति शाण्डिल्यस्मरणात् । यदा स्त्रीसंभोगमन्तरेण कामतश्चरमधातुं विसृजति दिवा च स्वप्ने वा विसृजति तदा नैर्ऋतयागमानं द्रष्टव्यम् । 'एतदेव रेतसः प्रयत्नोत्सर्गे दिवा स्वमे च' इति वसिष्ठेन यागमात्रस्यातिदिष्टत्वात् । व्रतान्तरेषु कृच्छ्रचान्द्रायणादिष्वतिदिष्टब्रह्मचर्येषु स्कन्दने सत्येतदेव यागमात्रम् । 'व्रतान्तरेषु चैव'मिति तेनैवातिदिष्टत्वात् । स्वमस्कन्दने तु मनूक्तं द्रष्टव्यम् (२।१८१) --'स्वमे सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वार्कमर्चयित्वा त्रिः पुन. समित्यूचं जपेत् ॥' इति । वानप्रस्थादीनां चेदमेव ब्रह्मचर्यखण्डने अवकीर्णव्रतं कृच्छ्रत्याधिकं भवति । 'वानप्रस्थो यतिश्चैव स्कन्दने सति कामतः । पराकत्रयसंयुक्तमवकीर्णिव्रतं चरेत् ॥ इति शाण्डिल्यस्मरणात् ॥ यदा गार्हस्थ्यपरिग्रहेण संन्यासात्प्रच्युतो भवति तदा संवतॊक्तं द्रष्टव्यम् ।-'संन्यस्य दुर्मतिः कश्चित्प्रत्यापत्तिं व्रजेद्यदि । स कुर्यात्कृच्छ्रमश्रान्तः षण्मासात्प्रत्यनन्तरम् ॥' इति । प्रत्यापत्तिार्हस्थ्यपरिग्रहः । अतएव वसिष्ठः-'यस्तु प्रबजितो भूत्वा
१ गार्हस्थ्यासंभवः परिग्रहश्च ङ.
For Private And Personal Use Only

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554