Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 427
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । प्रायश्चित्तमपि भवतीत्यर्थः ॥ ब्रह्मचारिणस्तु प्रायश्चित्तद्वैगुण्यं षोडशवर्षादूर्ध्वमेव । अर्वाक्तु पुनः 'बालो वाप्यूनषोडशः । प्रायश्चित्तार्श्वमर्हन्ति' इति षोडशवर्षादर्वाचीनस्यार्ध प्रायश्चित्ताभिधानात् । नच द्वादशवार्षिके चतुर्गुणे क्रियमाणे मध्ये विपत्तिशङ्कया समाध्यनुपपत्तेः प्रवृत्तिरेव नोपपद्यत इति शङ्कनीयम् । यतः प्रकान्तप्रायश्चित्तस्य मध्ये विपत्तावपि पापक्षयो भवत्येव । यथाह हारीतः'प्रायश्चित्ते व्यवसिते कर्ता यदि विपद्यते । पूतस्तदहरेवासाविह लोके परत्र च ॥' इति । व्यासोऽप्याह - 'धर्मार्थं यतमानस्तु न चेच्छक्नोति मानवः । प्राप्तो भवति तत्पुण्यमत्र वै नास्ति संशयः ॥' इति ॥ २५० ॥ अधुना निमित्तान्तरेषु ब्रह्महत्याप्रायश्चित्तस्यातिदेशमाह - यागस्थक्षत्रविट्याती चरेद्रह्महणि व्रतम् । गर्महा च यथावर्ण तथात्रेयीनिषूदकः ॥ २५९ ॥ ३९५ दीक्षणीयाद्युदवसानीयापर्यन्ते सोमयागप्रयोगे वर्तमानौ क्षत्रियवैश्यो यो व्यापादयति असौ ब्रह्महणि पुरुषे यद्ब्रह्महत्याव्रतमुपदिष्टं द्वादशवार्षिकादि तच्चरेत् । यद्यपि यागशब्दः सामान्यवचनस्तथाप्यत्र सोमयागमभिधत्ते || 'सवनगतौ च राजन्यवैश्यौ' इति वसिष्ठेन सवनत्रय संपाद्यस्य सोमयागस्यैव निर्दिष्टत्वात् । अत्रच गुरुलघुभूतानां द्वादशवार्षिकादिब्रह्महत्याव्रतानां जातिशतिगुणाद्यपेक्षया प्रागुक्तवद्व्यवस्था वेदितव्या । एवं गर्भवधादिष्वपि । मरणान्तिकं तु नातिदिश्यते । व्रतग्रहणात् । अतः कामतो यागस्थक्षत्रियादिवधे त्रतस्यैव द्वैगुण्यम् । एतच्च व्रतं संपूर्णमेव कर्तव्यम् । पूर्वयोर्वर्णयोर्वेदाध्यायिनं इत्वेति प्रक्रम्यापस्तम्बेन द्वादशवार्षिकाभिधानात् । गर्भ च विन्नासु संभूतं हत्वा यथावर्ण यद्वर्णपुरुषवधे यत्प्रायश्चित्तमुक्तं तद्वर्णगर्भवधे तच्चरेत् । एतच्चानुपजातस्त्रीपुंनपुंसकव्यञ्जनगर्भविषयम् । ( १११८७ ) - ' हत्वा गर्भमविज्ञातम्' इति मानवे विशेषदर्शनात् । अत्रच यद्यपि ब्राह्मणगर्भस्य ब्राह्मणत्वादेव तद्वधनिमित्ततप्राप्तिस्तथापि स्त्रीत्वस्यापि संभवात्स्त्रीशूद्रविट्क्षत्रवध इत्युपपातकत्वेन तत्प्रायश्चित्तप्राप्तिरपि स्यादतः स्त्रीपुंनपुंसकत्वेना विज्ञातेऽपि ब्राह्मणगर्भत्वमात्रप्रयुक्तं ब्रह्महत्याव्रतं कुर्यादित्यर्थवतिदेशवचनम् । उपजाते स्त्रीपुंसादिविशे व्यञ्जने यथायथमेव प्रायश्चित्तम् । यश्चात्रेय्या निषूदको व्यापादकः सोपि तथा व्रतं चरेत् । हन्यमानाश्रेयीवर्णानुरूपं व्रतं चरेदित्यर्थः । आत्रेयीशब्देनर्तुमत्युच्यते । - ' रजस्वलामृतुस्नातामात्रेयीमाहुर्यत्र ह्येतदपत्यं भवति' इति वसिष्ठ - स्मरणात् । अत्रिगोत्रजा च । -' - 'अत्रिगोत्रां वा नारीम्' इति विष्णुस्मरणात् । एतदुक्तं भवति । ब्राह्मणगर्भवधे ब्राह्मण्यात्रेयीवधे च ब्रह्महत्याव्रतम् । क्षत्रियगर्भवधे क्षत्रियात्रेयीवधे च क्षत्रहत्याव्रतमेवमन्यत्रापीति । चशब्दात्साक्ष्ये अनृतवचनादिष्वपि । तथाह मनुः ( ११1८८ ) - ' उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा । अपहृत्य च निःक्षेपं कृत्वा च खीसुहृद्वधम् ॥' इति । यत्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554