Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 442
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१० याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः छेदयित्वा तु ततः शुध्येत्स किल्बिषात् ॥' इति लौगाक्षिस्मरणात् । शूद्रायां तु कामतोऽभ्यासे द्वादशवार्षिकम् । 'पुनः शूद्रां गुरोर्गत्वा बुद्ध्या विप्रः समाहितः। ब्र. ह्मचर्यमदुष्टात्मा संचरेद्द्वादशाब्दिकम् ॥' इत्युपमन्युस्मरणात् । क्षत्रियायां तु गुरुभार्यायामबुद्धिपूर्वगमने यमोक्तं त्रैवार्षिकमष्टमकालाशनं द्रष्टव्यम् । 'कालेऽष्टमे वा भुक्षानो ब्रह्मचारी सदा व्रती । स्थानासनाभ्यां विहरंस्बिरह्योऽभ्युपयन्नपः । अधःशायी त्रिभिर्वषैस्तदपोहेत पातकम् ॥' इति । अत्रैवाभ्यासे जातूकोक्तं'गुरोः क्षत्रसुतां भार्या पुनर्गत्वा त्वकामतः । अण्डमानं समुत्कृत्य शुद्ध्येजीवन्मृतोऽपि वा ॥' इति ॥ वैश्यायां त्वकामतो गमने प्राजापत्यं चरेत्कृच्छ्रमित्येतदेव याज्ञवल्क्यीयम् । तथाच वृद्धमनु:-'गमने गुरुभार्यायाः पितृभार्यागमे तथा । अब्दत्रयमकामात्तु कृच्छ्रे नित्यं समाचरेत् ॥' इति । तत्रैवाभ्यासे हारीतोक्तं मरणान्तिकं ब्रह्मचर्यम्-'अभ्यस्य विप्रो वैश्यायां गुरोरज्ञानमोहितः । षडङ्गं ब्रह्मचर्य च स चरेद्यावदायुषम् ॥' इति । गुरुभार्यायां शूद्रायां त्वमतिपूर्वे मानवम् (११।१०५)-'खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः ॥' इति ॥ अथवा 'गुरुदाराभिगामी संवत्सरं कण्टकिनी शाखां परिष्वज्याधःशायी विषवणी भैक्षाहारः पूतो भवति' इति सुमन्तूक्तं कुर्यात् । तत्रैवाभ्यासे मानवम् ( ११।१०६)'चान्द्रायणं वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः' इति । क्षत्रियायां कामतः प्रवृत्तस्य रेतःसेकादर्वानिवृत्ती व्याघ्रोक्तम्-'कृच्छ्रे चैवातिकृच्छ्रे च तथा कृच्छ्रातिकृच्छ्रकम् । चरेन्मासत्रय विप्रः क्षत्रियागमने गुरोः॥' इति । अत्रेयं व्यवस्था । तया प्रोत्साहितस्य त्रैमासिकं प्राजापत्यचरणम् । उभयेच्छातः प्रवृत्तस्यातिकच्छ्रचरणं तावदेव । स्वेन प्रोत्साहितायां पुनःकृच्छ्रातिकृच्छ्रानुष्ठानं च तावदे. वेति । तत्रैव कामत प्रवृत्तस्य रेतःसेकात्पूर्व कण्वोतं द्रष्टव्यम्-'चान्द्रायणं तप्तकृच्छ्रमतिकृच्छ्रे तथैव च । सकृद्त्वा गुरोर्भार्यामज्ञानात्क्षत्रियां द्विजः ॥' इति । तया प्रोत्साहितस्यातिकृच्छ्रः । उभयेच्छातः प्रवृत्तस्य तप्तकृच्छ्रः । खेन प्रोत्साहितायां तु चान्द्रायणम् । वैश्यायां कामतःप्रवृत्तस्य रेतःसेकात्पूर्व निवृत्ती कण्वोक्तम्-'तप्तकृच्छ्रे पराकं च तथा सान्तपनं गुरोः । भार्या वैश्यां सकृद्गत्वा बुद्ध्या मासं चरेविजः ॥' इति । अत्रोभयोरिच्छातः प्रवृत्तौ तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां पराकः । तया प्रोत्साहितस्य सान्तपनम् ॥ अत्रैवाकामतः प्रवृत्तस्य प्रजापतिराह-'पञ्चरात्रं तु नाश्नीयात्सप्ताष्टौ वा तथैव च । वैश्यां भार्या गुरोर्गत्वा सकृदज्ञानतो द्विजः ॥' इति । तया प्रोत्साहितस्य तु पञ्चरात्रम् । उभयेच्छातः प्रवृत्तौ सप्तरात्रम् । स्वेन प्रोत्साहितायामष्टरात्रम् ॥ शूदायां तु कामतः प्रवृत्तस्य रेतःसेकात्पूर्व निवृत्तौ जाबालिराह-'अतिकृच्छं तप्तकृच्छ्रे पराकं वा तथैव च । गुरोः शूद्रां सकृद्रवा बुद्ध्या विप्रः समाचरेत् ॥' इति । तया प्रोत्साहितस्यातिकृच्छ्रः । उभयेच्छातः प्रवृत्तौ तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां पराकः । तत्रैवाकामतः प्रवृत्तस्य दैर्घतमसम्–'प्राजापत्यं सान्तपनं सप्तरात्रोपवासकम् । गुरोः शूद्रां सद्गत्वा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554