________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१०
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
छेदयित्वा तु ततः शुध्येत्स किल्बिषात् ॥' इति लौगाक्षिस्मरणात् । शूद्रायां तु कामतोऽभ्यासे द्वादशवार्षिकम् । 'पुनः शूद्रां गुरोर्गत्वा बुद्ध्या विप्रः समाहितः। ब्र. ह्मचर्यमदुष्टात्मा संचरेद्द्वादशाब्दिकम् ॥' इत्युपमन्युस्मरणात् । क्षत्रियायां तु गुरुभार्यायामबुद्धिपूर्वगमने यमोक्तं त्रैवार्षिकमष्टमकालाशनं द्रष्टव्यम् । 'कालेऽष्टमे वा भुक्षानो ब्रह्मचारी सदा व्रती । स्थानासनाभ्यां विहरंस्बिरह्योऽभ्युपयन्नपः । अधःशायी त्रिभिर्वषैस्तदपोहेत पातकम् ॥' इति । अत्रैवाभ्यासे जातूकोक्तं'गुरोः क्षत्रसुतां भार्या पुनर्गत्वा त्वकामतः । अण्डमानं समुत्कृत्य शुद्ध्येजीवन्मृतोऽपि वा ॥' इति ॥ वैश्यायां त्वकामतो गमने प्राजापत्यं चरेत्कृच्छ्रमित्येतदेव याज्ञवल्क्यीयम् । तथाच वृद्धमनु:-'गमने गुरुभार्यायाः पितृभार्यागमे तथा । अब्दत्रयमकामात्तु कृच्छ्रे नित्यं समाचरेत् ॥' इति । तत्रैवाभ्यासे हारीतोक्तं मरणान्तिकं ब्रह्मचर्यम्-'अभ्यस्य विप्रो वैश्यायां गुरोरज्ञानमोहितः । षडङ्गं ब्रह्मचर्य च स चरेद्यावदायुषम् ॥' इति । गुरुभार्यायां शूद्रायां त्वमतिपूर्वे मानवम् (११।१०५)-'खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः ॥' इति ॥ अथवा 'गुरुदाराभिगामी संवत्सरं कण्टकिनी शाखां परिष्वज्याधःशायी विषवणी भैक्षाहारः पूतो भवति' इति सुमन्तूक्तं कुर्यात् । तत्रैवाभ्यासे मानवम् ( ११।१०६)'चान्द्रायणं वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः' इति । क्षत्रियायां कामतः प्रवृत्तस्य रेतःसेकादर्वानिवृत्ती व्याघ्रोक्तम्-'कृच्छ्रे चैवातिकृच्छ्रे च तथा कृच्छ्रातिकृच्छ्रकम् । चरेन्मासत्रय विप्रः क्षत्रियागमने गुरोः॥' इति । अत्रेयं व्यवस्था । तया प्रोत्साहितस्य त्रैमासिकं प्राजापत्यचरणम् । उभयेच्छातः प्रवृत्तस्यातिकच्छ्रचरणं तावदेव । स्वेन प्रोत्साहितायां पुनःकृच्छ्रातिकृच्छ्रानुष्ठानं च तावदे. वेति । तत्रैव कामत प्रवृत्तस्य रेतःसेकात्पूर्व कण्वोतं द्रष्टव्यम्-'चान्द्रायणं तप्तकृच्छ्रमतिकृच्छ्रे तथैव च । सकृद्त्वा गुरोर्भार्यामज्ञानात्क्षत्रियां द्विजः ॥' इति । तया प्रोत्साहितस्यातिकृच्छ्रः । उभयेच्छातः प्रवृत्तस्य तप्तकृच्छ्रः । खेन प्रोत्साहितायां तु चान्द्रायणम् । वैश्यायां कामतःप्रवृत्तस्य रेतःसेकात्पूर्व निवृत्ती कण्वोक्तम्-'तप्तकृच्छ्रे पराकं च तथा सान्तपनं गुरोः । भार्या वैश्यां सकृद्गत्वा बुद्ध्या मासं चरेविजः ॥' इति । अत्रोभयोरिच्छातः प्रवृत्तौ तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां पराकः । तया प्रोत्साहितस्य सान्तपनम् ॥ अत्रैवाकामतः प्रवृत्तस्य प्रजापतिराह-'पञ्चरात्रं तु नाश्नीयात्सप्ताष्टौ वा तथैव च । वैश्यां भार्या गुरोर्गत्वा सकृदज्ञानतो द्विजः ॥' इति । तया प्रोत्साहितस्य तु पञ्चरात्रम् । उभयेच्छातः प्रवृत्तौ सप्तरात्रम् । स्वेन प्रोत्साहितायामष्टरात्रम् ॥ शूदायां तु कामतः प्रवृत्तस्य रेतःसेकात्पूर्व निवृत्तौ जाबालिराह-'अतिकृच्छं तप्तकृच्छ्रे पराकं वा तथैव च । गुरोः शूद्रां सकृद्रवा बुद्ध्या विप्रः समाचरेत् ॥' इति । तया प्रोत्साहितस्यातिकृच्छ्रः । उभयेच्छातः प्रवृत्तौ तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां पराकः । तत्रैवाकामतः प्रवृत्तस्य दैर्घतमसम्–'प्राजापत्यं सान्तपनं सप्तरात्रोपवासकम् । गुरोः शूद्रां सद्गत्वा
For Private And Personal Use Only